________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
...
एह्यासंग्रहः।
[१ प्र.]
पार्टी (निदू आर्द्रभावे) यं पृथिवी एतस्मात् कारणादुपलिप्यते गोमयेन ॥ ननु कस्मिंश्चिदतीते काले वृत्रस्य मेदसा संक्लिन्ना भूमिरासीत्, तदपि मेदः पूर्वमेवोद्धतं, तत् किमिदानीमुपलेपनेन ?-इत्याशङ्कायामाह,मेदमुनियमाणस्य शेषं यत् किञ्च तिष्ठति ॥६१ ॥
अन्तधीनं मृदा चैव दीयते वेदनिश्चयः। 'उद्धियमाणस्थ' उद्धतस्य मेदमः, 'शेषम्' अवशिष्टम्, 'यत्' 'किच्च' किमपि, 'भेदम्' भेदः, 'तिष्ठति' अस्थात्, ‘मृदा' 'एव' 'तस्य' 'अन्तधानम्' 'दीयते' दत्तम्। उभयत्र कालसामान्ये लट् । अथ वा। उद्धृतस्य मेदसोऽवशिष्टं किञ्चिन्मेदोऽद्यापि तिष्ठत्येव । तिष्ठति चेत्, कथं न दृश्यते ? । तवाह। दैव तस्यान्तर्धानमद्यापि दीयते । अतो न दृश्यते, दूति भावः । इत्ययं 'वेदस्य' 'निश्चयः । एतस्मात् कारणादिदानीमप्युपलिप्यते, इत्यभिप्रायः। ___ दीक्षितस्त्वन्यथेमं ग्रन्थं वर्णयाञ्चकार,-मेदमुद्धियमाणस्य, इत्यादिम्। “वृत्रस्य मेदं रुधिरमुद्रियमाणस्योद्धृतस्य यत् शेषं किञ्च तिष्ठति, तन्मदैव मृत्तिकया अन्तर्धानं दीयते-स्थण्डिलं क्रियते इत्यर्थः" इति ॥
द्यूते च व्यवहारे च प्रवृत्ते यज्ञकर्मणि ॥६२॥ यानि पश्यत्युदासीनः* कता तानि न पश्यति ।
* पश्यन्त्युदासीनाः, इति पाठान्तरम् ।
For Private and Personal Use Only