________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
[१ प्र.]
राधासंग्रहः।
७EE
एतानि तत्त्वतो ज्ञात्वा गृह्याकर्मणि कारयेत् । एतानि परिसमूहनादीनि तत्त्वतो ज्ञात्वा ग्रह्याकर्मणि कर्त्तव्ये कारयेत्। एतानि, इत्येव । ग्टह्याकर्माणि, इति पाठे, एतानि ज्ञात्वा ग्टह्याकर्माणि कारयेदिति व्यक्त एवार्थः ॥ "प्रागुदक् प्रवणं देशं समं वा परिसमूहोपलिप्य" इति सूत्रण भूमेरुपलेपनं गोभिलेनोक्तम्। 'गोमयेनोपलिप्य च'-इत्यनेन स्वयमप्येतदनुशिष्टम्। तत्र पृच्छति,विष्णुपादपरिक्रान्ता वाराहेणोद्धृता च या ॥ ५ ॥
शुचिर्मेध्या च पूता च किमर्थमुपलिप्यते ।। येयं भूमिर्विष्णुपादेन परिक्रान्ता कृतपरिक्रमणा, वाराहेण वराहरूपिणा भगवता प्रलयार्णवादुद्धता च, सेयं चिरनुपहता, मेध्या यज्ञाही च, (मेधो यज्ञ इत्यनान्तरम्) पूता पवित्रा च । अथ वा ।
चिर्मेध्या पवित्रेति पर्यायशब्दानां कथनभङ्ग्या पवित्रत्वातिशयो भूमेरभिप्रेयते । मा खल्वियं किमर्थं पुनरुपलिप्यते गोमयेन ? ॥ अत्रोत्तरमाह,
इन्द्रेण वज्जाभिहतः पुरा रचो महासुरः॥ ६ ॥ मेदसा तस्य संक्तिन्ना तदर्थमुपलिप्यते ।
पुरा पूर्वसिमन् काले वृत्रो नाम कश्चिन्महासुरः इन्द्रेण की वज्रेण करणेनाभिहतः, तस्य वृत्रस्य मेदसा धातुविशेषेण संक्लिन्ना
For Private and Personal Use Only