________________
Shri Mahavir Jain Aradhana Kendra
७
www.kobatirth.org
ह्यासंग्रहः ।
Acharya Shri Kailassagarsuri Gyanmandir
[१ प्र. ]
रेखाणं वर्णमाह -
शुक्लवर्णी पार्थिवी स्यादाग्नेयी लेाहिता भवेत् ॥ ५६ ॥ प्राजापत्या भवेत् कृष्णा नीला मैन्द्रों विनिर्दिशेत् । पीतवर्णेन सैमी स्याद्रेखाणां वर्णलक्षणम् ॥ ५७ ॥
पीतवर्णेन, दूति इत्थम्भावे तृतीया । पीतवर्णेन विशिष्टा स्यादित्यर्थः । श्लिष्टमन्यत् । तदित्थमेनं सार्द्धश्लोकं दीक्षितरामकृष्ण: पपाठ व्याचष्टे च । रघुनन्दनस्त्वन्यथेमं ग्रन्थं पठति । तद्यथा,
पार्थिवी पीतवर्णी स्यादाग्नेयी लोहिता भवेत् । प्राजापत्या भवेत् कृष्णा नीला चैन्द्री प्रकीर्त्तिता । श्वेतवर्णी च सैामी स्याद्रेखाणां वर्णलक्षणम् ॥
इति । भवदेवभट्टोऽप्येवमेव पद्धतौ लिलेख । पीतं रूपं पृथिव्या:, श्वेतं सोमस्य – इति तन्त्रान्तरेऽपि दृश्यते । तदच भवन्तो भूमिदेवाः प्रमाणम् ॥
एष लेखविधिः प्रोक्तो ह्याकर्मसु सर्व्वसु । स्वक्ष्मास्ता ऋजवः काय्र्य्यी लेखास्ताः सुसमाहिताः ॥ ५८ ॥ लेख विधिः, - रेखाणामुलेखनविधिः । श्रथवा । लिख्यते, — इति लेखो रेखा भण्यते । तासां विधिरित्यर्थः । सर्व्वसु, –- इति एत्वाभावम्छान्दमः । ताः पृर्व्वक्ता रेखा:, सूक्ष्मा न स्थूलाः, ऋजवो न वक्राः, कर्त्तव्याः । ताः खल्विमा रेखाः सुसमाहिताः, -शोभनं सम्यक् — यथेोक्तप्रकारेणाहिताः करणीयाः, -- इत्यादरार्थमुक्तम् ॥
For Private and Personal Use Only