________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
७६२
यासंग्रहः ।
[१ प्र.]
नपरतया वर्णयन्ति । तदप्यसमीचीनमिति लक्ष्यते। कुतः ?। अनुनिबार्थग्टह्यसूत्रार्थपरत्वाइन्थस्य । स्थानप्रस्तावाचानुपस्थितामनपरताया अन्याय्यत्वात् । अन्यथा वृषों कुर्य्यादुदमुखीम्-इत्यस्मिन्नेव प्रक्रमे इदमपि कुर्यात् । वर्णनापि तेषां न शब्दमनुसरतीत्यलमसदावेशेन ॥
वरं गान्तु विजानीयाच्चतुर्वषीमिति स्थितिः॥४२॥
दक्षिणानां विशिष्टं वै वरं तमपरं विदुः। चतुर्वर्षी गां वरं जानीयादिति शास्त्रमादा । दक्षिणानां मध्ये विशिष्ट श्रेष्ठं, तं गाम् , अपरं पूर्वानादन्यं वरं जानन्याचार्याः । तम्, इति विधेयप्राधान्यविवक्षया पुंसा निर्देशः, लिङ्गव्यत्ययादा । नात्र कल्पे वर्षनियम इत्यभिप्रायः । तथा चोकम् ।
"गौविशिष्टतमा लोके शास्त्रेऽपि च निगद्यते ।
न ततोऽन्यदरं किञ्चित् तस्मागौरमुच्यते" ॥ इति। तदनेन,-"अनवान् कसा वासा वर इति दक्षिणाः"इति सूत्रस्थोऽनुभिनार्थी वरशब्दो व्याख्यातः ॥ "पूर्णपात्रो दक्षिणा" इति सूत्रस्थं पूर्णपात्रपदं व्याकरोति,
चतुर्मुष्टिर्भवेत् किञ्चित् पुष्कलं तच्चतुर्गुणम्॥४३॥
पुष्कलानि च चत्वारि पूर्णपाचं विधीयते । चतुर्मुष्टिः 'किञ्चित्' भवेत् । किञ्चिच्चतुर्गुणं-घोड़शमुष्टिः पुष्कलं भवेत् । चत्वारि पुष्कलानि-चतुःषष्टिमुष्टिः पूर्णपात्रमिति दीक्षित भाव्यम् । 'अष्टमुष्टि भवेत् कुञ्चिः कुञ्चयोऽटौ च पुष्कलं' इति नारायोपाध्यायादयः पठन्ति । अत्र च, “कसं चमसं वाऽत्रस्य पूरयित्वा
॥
For Private and Personal Use Only