________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
गृह्यासंग्रहः ।
Acharya Shri Kailassagarsuri Gyanmandir
[१ प्र.]
भूमेः समूहनं कृत्वा गोमयेनोपलिप्य च ॥ ३७ ॥ द्रव्याण्युत्तरतः स्थाप्य दृषों कुर्य्यादुदङ्मुखीम् ।
ܘܕܕ
यागार्थं भूमेः समूहनं कुनै मानं कृत्वा, गोमयेोदकेनोपलिप्य द्रव्यायुदकादीनि प्रयोजनोपयोगीनि उपलिप्तभूमावुत्तरतः स्थापयित्वा, वृषीम् — ऋषीणामासनम् — विहितमासनमित्येतत् । उदङ्मुखी मुदगयां कुर्य्यात् । मुखमग्रम् । तदिदानीं प्रयोजनोपयोगिद्रव्यासादनमस्माकं न ब्रह्मस्थापनाद्यनन्तरमिति द्रष्टव्यम् । श्राह । कस्य उत्तरतः ? | अग्नेरिति ब्रूमः । तथाच कर्मप्रदीपः ।
“प्राञ्चं प्राञ्चमुदगरुदगग्रं समीपतः ।
तत्तथाऽऽसादयेद् द्रव्यं यद् यथा विनियुज्यते” ।
इति । यद्यप्यग्निरिदानीं न स्थापितः, तथापि भविष्यतैवाग्निना 'उत्तरतः’–इत्यस्य संबन्धो बेाद्धव्य: । “ पुरोडाशकपालेन तुषानुपवपति” – इति भविष्यता पुरोडाशेन कपालस्य संबन्धो यथा ॥ यज्ञादौ स्थानपरिमाणमाह -
गोचर्म्ममाचं कुर्व्वीत चतुरस्रमनूषरे ॥ ३८ ॥ सर्व्वतेारत्निमाचः स्यात् सायं प्रातस्तु होमयेाः ।
ऊपरमिति बालुकामयं स्थानमुच्यते । तत् न भवतीत्यनूषरम् । तस्मिन् प्रदेशे, चतुरस्त्रं चतुष्कोणं गोचर्भमात्रं गोचपरिमाणं स्थानं कुर्वीत | सायंप्रातमयोः पुनः सर्व्वता दिनु रनिमात्रं अरत्निमात्रं वा स्थानं स्यात् । उभयत्र परिमाणे मात्रच् । बद्धमुष्टिः करो रनिः ।
For Private and Personal Use Only