________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
७८२
ग्टह्यासंग्रहः।
[१
]
सप्तजिह्वा-प्रमाणन्तु प्रादेशं परिकीर्तितम् ।
प्रमाणं चतुरस्रञ्च वर्तुलं मुखमण्डलम् ॥ २० ॥ पूर्वोक्तानां वक्ष्यमाणानाञ्च सप्तजिहानां प्रमाणं प्रादेशं विस्तृततर्जन्यङ्गष्ठरूपम्। अपर पाह। बद्धमुष्टिः करो रनिः, रत्न्यर्दू प्रादेशम्, इति । प्रमाणं पूर्वोकप्रादेशप्रमाणं, चतुरस्त्रं चतुकोणञ्चाग्निमुखं कथितम् । मुखमण्डलन्तु वर्तुलम् ॥ ___ यदर्थं हूयते वह्नौ तां जिह्वां परिकल्पयेत् । यत्काथ इयते, तां तदिहितां जिहामनी परिकल्पयेत् चिन्तयेदावाहयेदा॥ पूर्वोक्ताभ्यः सप्तभ्यो जिताभ्योऽन्याः सप्त जिहा आह,.. कराली धमिनी श्वेता लोहितामहालाहिता॥२१॥
सुपर्णी पद्मरागी च सप्तैताः परिकीर्तिताः । सप्तता जिताः कथिताः । ऋज्वन्यत् ॥ करालों राक्षसाश्नन्ति धमिनीमसुरास्तथा ॥ २२॥ श्वेतां नागाः समश्नन्ति पिशाचा लोहितां तथा।
महालोहितां गन्धवाः सुपर्णीच यमस्तथा ॥२३॥ करालों-कराल्या जिकया, कराली जिहां प्राप्येति वा वर्णनीयम् । एवमुत्तरत्रापि व्याख्येयम् । राक्षसाः प्रश्नन्ति । अत्र विसर्गलोपे सन्धिरार्षः ॥
For Private and Personal Use Only