________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
ग्रमासंग्रहः।
पद्मरागी च विख्याता दिव्या जिह्वा हुताशने ।
तस्यान्तु होमयेन्नित्य सुसमिद्धे हुताशने ॥ २४ ॥ यया देवाः समश्नन्ति, मा दिव्येशुच्यते । हुताशने हुताशनस्य । पद्मरागी हुताशनस्य जिहा दिव्या विख्यातेत्यर्थः । तस्यां दिव्यायां जिह्वायां पद्मराग्यामित्येतत् । सुसमिद्धे प्रज्वलिते। लिष्टमन्यत् ॥ विधमे लेलिहाने च होतव्यं तन्त्रसिद्धये ।
न धूमा न तथा ज्वाला विशुद्धो भुवि चक्षुषः ॥२५॥ विधूमे धूमरहिते, लेलिहाने दीप्यमाने चाग्नौ, तन्त्रस्य कर्मविस्तारस्य सिद्धये होतव्यम् । तत्र हेतुरुत्तरार्द्धनोकः । न धूमः चक्षुषो विशुद्धः विद्धिहेतुः, अपि तु धूमश्चक्षुषोऽविशुद्धिहेतुरित्यर्थः। तथेति धूमयुक्रेत्यर्थः । धूमयुक्ता ज्वालापि न चक्षुषो विद्धिहेतुः, अपि तु मापि चक्षुषोऽविश्वद्धिहेतुरेव। तदत्र धूमशब्देन केवलधूमस्य, ज्वालाशब्देन तु धूमयुक्तज्वालाया अपि दोष उक्त: । 'भुवि'-दूत्यत्रापि ज्वालेत्यन्वीयते । भुवि ज्वाला न चक्षुषो विद्धिहेतुः, इति भुवं लिइत्यमा होमो निन्द्यते । तथा च स्मर्यते।
"क्षुत् लट् क्रोध त्वरा युको हीनमन्त्रं जुहोति यः । अप्रवद्धे मधूमे वा सेोऽन्धः स्यादन्यजन्मनि । अल्पे रुक्षे सस्फुलिङ्ग वामावर्ते भयानके । श्राकाष्ठः सुसम्पन्ने फुत्कारवति पावके । कृष्णार्चिषि सुदुर्गन्धे तथा लिहति मेदिनीम् । आहुतिं जुड़याद् यस्तु तस्य नाशो भवेद् ध्रुवम्” ।
For Private and Personal Use Only