________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
ग्टह्यासंग्रहः।
ज्ञात्वा स्वरूपमाग्नेयं योऽमेराराधनं चरेत् ॥ १७॥ ऐहिकामुष्मिकैः काम्यैः सारथिस्तस्य पावकः । निःस शयकरैरथैः पुत्रशिष्यहितैषिणः ॥ १८ ॥ यः पुनरमेरिदमाग्नेयं स्वरूपं वक्ष्यमाणलक्षणं ज्ञात्वा अग्नेराराधनमाचरति, तस्य पुत्रशिष्यहितैषिणः, इत्याग्नेयं स्वरूपं विदुषः पुत्रशिष्यहितैषित्वं वदन्-तदविदुषः पुत्रशिय्यानिष्टमपि द्योतयति । 'निःसंशयकरैः'-नि:संशयं यथा भवति तथा क्रियमाणैः, 'काम्यैःकमनीयैः अभिलसनीयः, 'ऐहिकामुनिकः'-दहलोके परलोके च भवेः मौभाग्यस्वादिभिः, 'अर्थः'-प्रयोजनैः फलैः,-दूटेतत् । 'पावकः' 'मारथिः'-मारथिवदनुकूलः तत्तत्फलनिर्बाहक इत्यर्थः । तयाविधैरथैः पुत्रशियहितैषिणस्तस्य पावकः सारथिः-फलदाता, इति वा वर्णनीयम् । तदनेन तस्य पुत्रशिष्याणामपि तत्तदर्था: सम्पद्यन्ते, दूल के भवति ॥ न चात्र संशयः कर्त्तव्यः इत्याह,
गाभिलाचार्यपुत्रेण कृत५ शास्त्र५ सुनिश्चितम् ।
पावकस्य मुखं वक्ष्ये यदुक्तं पद्मयोनिना ॥ १६ ॥ शास्त्रं पूतिमग्निनामादिप्रतिपादकं गोभिलाचार्यपुत्रेण मया सुनिश्चितं कृतमिति गोभिलानुकोऽपि मनोऽग्निर्गर्भाधानादिष्वस्तीत्यभिप्रायः । उक्रस्यापि पुनरुक्तिः शिष्याणं दृढ़प्रत्ययार्था । अपर श्राह । शा त्वं ग्रह्यासंग्रहाख्यम्, इति। अथेदानीमहमनेर्मुखं वक्ष्ये
व्याख्यातमन्यत् ॥
For Private and Personal Use Only