________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
[४ प्र. १० का
ग्रह सूत्रम्।
र्थम् । मध्ये इतिकारकरणं ततः प्राकनस्य मन्त्रभागस्य यथाश्रुतपाठार्थम्, पराचीनस्य 'अमुथ्य'पदस्य स्थाने नामादेशसूचनार्थञ्च । अन्यस्य पराचीनत्वेऽपि न नामादेशः, प्रमाणभावात् । नाप्यध्याहारः, समस्तमन्त्रानानात्'-दति। तथा च छन्दोगग्टह्यान्तरम्। “मचोदितामनुमन्त्रयेत मुञ्च गामित्यमुव्य चेत्यर्हयितु म ब्रूयात्” इति। भट्टभाय्येप्युक्तम्,-"मेऽभिधेहीत्यत्रेति शब्दप्रक्षेपात् 'मेऽभिधेहि'-दूत्येव प्रयोगः । न तु निराकानीकरणाय मे वनुरिति । अमुव्यपदस्थाने अर्हयितु मादेशः” इति । अत्र च, पद्यमानमन्त्रकाण्डे 'इति'पदं न पद्यते, केवलमाचार्येणैव उकमर्थं प्रतिपिपादयिषुणा प्रक्षिप्तं तदिति बोद्धव्यम् । भट्टनारायणोऽपि प्रक्षिप्तत्वमितिकारस्य स्पष्टमाचष्टे । व्याख्यातारोऽपि पूर्वीचार्या एवमेव प्रतिपन्नाः । भवदेवभट्टोऽपि मन्त्रे दूतिकारं न लिल्लेख । यच्च,-उतभट्टभाष्यप्रतीकं लिखित्वा, रघुनन्दनेनोक्तम्,–“मेऽभिधेहीत्यत्र भवदेवभट्टेन यत् इतिपदं न लिखितम्, तद् हेयम्, भट्टभाव्यविरोधात्, प्रमाणभावाच्च,"इति । तदेव हेयम् । कस्मात् ? । भट्टभाव्यविरोधाभावात् । तत्र खल्वितिशब्दस्य प्रक्षेपत्वकथनायकमितिशब्दस्य मन्त्रानङ्गत्वमुक्तम् । प्रमाणञ्चात्र मन्त्रसमाम्नायोऽध्येटसम्प्रदायश्च । तस्मात्,-भट्टभाष्यपतस्तात्प-पालोचनात् ममाम्नायाद्यनवलोकनप्रमादाच्च अप्रमाणं प्रमाणविरुद्धञ्च यदृच्छयैव प्रलपितमित्यनादरणीयम् ॥०॥१८॥०॥ ततो नापितेन मुतां तामेव गामवलोकयन्नईणीयः,
माता रुद्राणामित्यनुमन्त्रयेत ॥२०॥ ज्वर्थं सूचम् ॥ ॥ २० ॥०॥
For Private and Personal Use Only