________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
७६६
गोभिलीयं
[ प्र. १० का.
नापितेन त्रिगारित्युक्ते खल्वयमहणीयः, तमेव नापितम्,
मुञ्च गां वरुणपाशाद् द्विषन्तं मेऽभिधेहीति तं जह्यमुष्य चोभयोरुत्सृज गामत्तु तृणानि पिवतूदकमिति ब्रूयात् ॥ १६ ॥
मुञ्च गामिति मन्त्रं ब्रूयात् । श्राह। समस्तमन्त्रानान किमर्थम् ? । समाम्नाय प्रज्ञापनार्थम् । एवमेव मन्त्रस्य पाठार्थञ्च । तेन, मे,इत्यादौ निराका झवा) न नामप्रयोगः । तेन, अमुव्य, इत्यप्यनूह एव स्थात्, इति केचित्। ते खलु, 'मेऽभिधेहीति'-इत्यत्र, इतिकारं किमिति न लिखितवन्तः, इति प्रष्टव्याः । तस्मात्, 'अमुष्य'पदस्थाने तावदईयितु मादेशः कर्त्तव्यः । कुतः ?। अदः पदस्थाने नामादेशस्यास्माभिः पूर्वमुपपादितत्वात् । “समस्तमन्त्राम्नानं 'जहि' 'अमध्य-इति पदयोरन्तरा शब्दान्तराध्याहारशङ्कानिवृत्त्यर्थम् । अन्यथा, मम विष्णदत्तस्य च, इत्येवं प्रयोगः स्यात्। तचायुक्रम् । मेऽभिधेहीति मे-शब्देन तदर्थसिद्धेः” इति केचित् । तेषामपि तदुक्तयेव युक्त्या अध्याहारशङ्काया अप्रसनः समस्तमन्त्राम्नानं किमर्थमिति न विद्मः । मेऽभिधेहीति, इत्यत्र इतिकरणं किमर्थम् ? । परस्तान्मन्त्रपदस्य रूपान्तरत्वप्रज्ञापनार्थम्। प्रागिति शब्दप्रक्षेपात् यथाऽवस्थितानामेव मन्त्रपदानां प्रयोगार्थञ्च । तेन, 'अमुव्य'-पदस्थाने नामादेशः स्यात् । तर्हि 'तम्' इत्यात्रापि स्यात् ? । नैष दोषः । इति करणात् प्राकनेन 'द्विषन्तम्'-इति पदेन तस्य सम्बन्धात् ।
तस्मादियमेवावधारणा ;-'समस्तमन्त्रानानं समाम्नाय प्रज्ञापना
For Private and Personal Use Only