SearchBrowseAboutContactDonate
Page Preview
Page 277
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir [४ प्र. १० का.] ग्टह्यसूत्रम् । ७५६ इत्यल्पत्वादहयितुः कर्म प्रथमं सृत्रितम् । वेदयेरन्- ज्ञापयेयु:इति केचित् । निवेदनञ्च दक्षहस्तेनादाय कर्त्तव्यम् । कर्तुरङ्गस्योपदेशाभावे तस्यैव करस्य कर्मपारगत्वात् । तथा चोकम् । "कपिदिश्यते यत्र कर्तुरङ्गं न चोच्यते । दक्षिणस्तत्र विज्ञेयः कर्मणां पारगः करः”। इति । तस्मात्,-विष्टरनिवेदने उत्तानहस्ताभ्याम्-इत्यमङ्गता कल्पना भवदेवभट्टस्य । सुखावबोधार्थं प्रयोगः प्रदर्श्यते । विष्टरो विष्टरो विष्टरः, पाद्यं पाद्यं पाद्यम् , अWमर्थ्यमय॑म् , आचमनीयमाचमनीयमाचमनीयम् , मधुपर्की मधुपर्को मधुपर्कः,-प्रतिग्टह्यताम्-इति सर्वत्र वाक्यशेषं समापयेत् । कुतः ? । तथा प्रमिद्धेः । योग्यत्वाच । विष्टरदयपक्षे द्विवचनान्तेन प्रयोगः, इति भट्टनाराय पाध्यायाः । पृथङ निवेदनम्, इति भवदेवभट्टः ॥०॥ ५ ॥०॥ अथेदानीमहणीयकर्मविधिर्वक्रव्यः। स खल्वर्हयित्रा दत्तं विष्टरादिकंविष्टरं प्रतिग्टह्णामि, इत्यादिना ग्टह्णीयात् । कथं ज्ञायते ? । योग्यत्वात् । प्रसिद्धेश्च । अयमधुपर्कयोस्तु विशेषं वक्ष्यामः । स खल्दयमहणीयः विष्टरं ग्टहीत्वा, या ओषधीरित्युदञ्चं विष्टरमास्तीयाध्युपविशेत् ॥ या ओषधीः, इत्यनया ऋचा उदञ्चमुत्तराग्रं विष्टरमास्तीर्य, विष्टरम् अधिलक्ष्मीकृत्य श्रासनस्योपरि उपविशेत् । क्व आस्तीर्य ? श्रासने । कथं ज्ञायते ?। “तामह्यमस्मिन्नामने"-इति मन्त्रलि For Private and Personal Use Only
SR No.020355
Book TitleGobhil Gruhya Sutram
Original Sutra AuthorN/A
AuthorChandrakant Tarkalankar
PublisherCalcutta Rajdhani
Publication Year1802
Total Pages606
LanguageSanskrit
ClassificationBook_Devnagari
File Size17 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy