________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
७५८
Acharya Shri Kailassagarsuri Gyanmandir
गोभिलीयं
[ ४ प्र. १० का . )
“माक्षतं सुमनोयुकं उदकं दधिमिश्रितम् । श्र, दधि मधुभ्याञ्च मधुपर्केो विधीयते " । इति वचनं लिखित्वा 'दधिमधुमात्रेण मधुपर्काभिधानं घृतासम्भवपरम् ' - इति स्वच्छन्दादेव परिकल्प्य 'तत् सम्भवे गोभिल: ' - इत्यभिधाय, “मधुपर्कं दधिमधुघृतमपिहितं कांस्ये कांस्येन” – इति पारस्करगृह्यसूत्रम्,–“पिहितं कांस्यस्यम् " - इत्याकुलीकृत्य लिखित्वा, 'पूर्व्ववचने पात्रानुपदेशात् कांस्यपात्रं विनापि मधुपर्के दीयते' - इति ब्रुवन्नात्मनः कल्पनानैपुण्यं स्थापयाञ्चकार । पृथगमीषां मधपकीणामेकविशेषस्यान्यत्राप्रसक्तः किमर्थमेतावान् प्रयास:, इति न विद्मः । परमार्थतः पुनर्मधुपकीणां पृथक्त्वमविदुषा वृथैव प्रलपितमिति प्रेक्षावतामनपेक्षणीयं भवति । श्रपि च । मध्वसम्भवे घृतेन मधुपर्कं ग्टह्यान्तरकाराः स्मरन्ति, स तु स्वातन्त्र्यातिशयान्मन्यते, — घृतासम्भवे दधिमधुमात्रेण मधुपर्कः - इत्य होप्रमादः । तथाच टह्यान्तरम् । " दधनि मध्वानीय सर्पिवी मध्वलाभे " - इति । अपि च ।
वतायं साहसिका, - , - यः पारस्करीयं सूत्रमाचार्थीयं ब्रुवम् पारमर्षञ्च सूत्रमाकुलयन्नापचपते । तत् किमच ब्रूमः ! विस्तरतश्चैतत् गृह्यासंग्रहभाव्ये वक्ष्यामः । श्रग्निखामिनेोपि प्रथमं मधुपर्कमविद्वांस व कल्पवृत्तौ भाषन्ते - मधुना पृक्तं दधिपयः कृतान्नं वा मधुपर्क: - इति । 'मधुपर्के दधि मधुयुक्तम्' - इति ब्रुवाणो भट्टनारायगोप्यसम्यग्दर्शित्वमात्मनो नातिशेते । तदस्तु किं विस्तरेण ? |
सूत्रशेषमिदानीं वर्णयामहे । तानेतान् विष्टरादीन् मधुपकान्तान् द्रव्यविशेषान् एकैकशः प्रत्येकं त्रिस्त्रिरुच्चार्य्य, वेदयेरन्– निवेदयेरन्,—
For Private and Personal Use Only