________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
[४ प्र. १० का . ]
इति ग्टह्यामंग्रह कलक्षणम् । स खल्वयमर्थः कांस्यपात्रेणार्हणीय
'
स्याञ्जलौ निनेतव्यः । कस्मात् ? ।
इति ।
Acharya Shri Kailassagarsuri Gyanmandir
गृह्यसूत्रम् ।
"कांस्येनैवार्हणीयस्य निनयेदर्घ्यमञ्जली” |
इति वचनात् — इति वर्णयन्ति । श्राचमनीयम् श्राचमनार्थमुदकम् । मधुपर्क:
" सर्पिषा मधुना दना श्रर्चयेदयन् सदा । ऋषिप्रोक्तेन विधिना मधुपर्केण याज्ञिकः । कंसे त्रितयमामिच्य कंसेन परिसंवृतम् । परिश्रितेषु देयः स्यान्मधुपर्क इति ध्रुवम्” ।
" दधनि पयसि वाऽथवा कृताने
मधु दद्यान्मधुपर्कमेतदाहुः ।
दधि मधु मलिलेषु सक्तवः पृथते विहिता स्वयस्तु मन्थाः " ।
তত
इति च गृह्यासंग्रहातलक्षणः । तदेवं छन्दोगानां स्वशाखापरिभाषितश्चतुर्विधा मधुपकी भवति ; - सर्पिर्मधुदधि, दधनिमधु, पयसि मधु कृताने मधु च इति । तत्र प्रथमा मधुपर्क: कंसस्यः कंस परिवृतश्च भवति । इतरेषु पुनर्नेष नियमः । कस्मात् ? । “कंसे चितयमामिच्य”– इत्यादिना तत्रैव तदभिधानात् । यथा खल्वभिक्रमणं प्रयाजमात्रस्यैवाङ्गं नानुयाजादीनाम्, तद्वदत्रापि स्यात् । रघुनन्दनस्तु छन्दो गोप्येतदजानानः, -
For Private and Personal Use Only