________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
गोभिलीयं
[४ प्र. १० का.]
स खवयं विष्टरः एको वा स्यात् द्वौ वा, इत्यनियमः । कथं ज्ञायते ? । 'दौ चेत्' इति वक्ष्यमाणसूत्रपालोचनात् ।
पाद्यम्-पादप्रक्षालनार्थमुदकम्। तथाच लायायनसूत्रम्। “तत्रैतदाहरन्ति,-विष्टरं पादप्रक्षालनम् अर्यम् आचमनीयं मधुपर्कमिति" इति । द्राह्मायणसूत्रम् । “अर्हयिष्यन्त श्राहरन्ति,-विष्टरी पाद्यमय॑म्" इत्यादि । “विटरः पाद्यमी माचमनीयं मधुपर्को गैरित्येतेषां त्रिस्त्रिरेकै वेदयन्ते” इति च गृह्यान्तरम् ।
“पादार्थमुदकं पाद्यं केवलं जलमेव तत् ।
तत्तैजसेन पात्रेण भवेनापि निवेदयेत्” । इति च स्मयते पुराणेषु । तस्मात्,-'पाद्यम्'-दूत्येवमेव प्रयोगो भट्टनारायणाद्यनुमत आदरणीयः । यच्च भवदेवभट्टेन ‘पाद्याः',इति लिखितम् , यदपि सरलायाम्-'पाद्याः', दूति प्रयोगमभिधाय, पाद्याः-इति अप्संबन्धात् स्त्रीबहुवचनम्, इति वर्णितम् । तदसङ्गतम् । कुतः ?। अस्मच्छास्त्रे पाद्यमिति निर्देशात् । न खल वीक्षणविधी मन्त्रे च 'अपः' इति दर्शनादत्रापि तथा कल्पनायां किञ्चित् प्रमाणमस्ति । तस्मादस्मक एव प्रयोगः । अर्यम्
“दध्यक्षतसुमनस आपश्चेति चतुष्टयम् । अर्थ एष प्रदातयो रह्ये ये अाहा: सत्ताः । दध्यक्षतसुमनसो घृतं सिद्धार्थका यवाः । पानीयश्चैव दर्भाश्च अष्टाङ्गो ह्यय॑ उच्यते” ।
For Private and Personal Use Only