________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
[४ प्र. १० का.)
ग्रह्यसूत्रम्।
वाशब्दः तुशब्दार्थः। यदा पुनरेनमहयेयुस्तदा विष्टरादीनि वेदयेरन् , इत्यनागतेनाभिसंबन्धो वर्णनीयः ॥०॥ ४ ॥१॥ अथेदानीमईणविधिविवक्षयेदमाह,विष्टरपाद्यार्थ्याचमनीयमधुपकानेकैकशस्त्रिस्त्रिर्वे
दयेरन् ॥५॥ विष्टरः,
"ब्रह्मविष्ठरयोश्चापि सन्देहे समुपस्थिते । ऊकेशो भवेद्ब्रह्मा लम्वकेशस्तु विष्टरः । कतिभिस्तु भवेद्ब्रह्मा ? कतिभिर्विटरः स्मृतः ? ।
पञ्चाशद्भिः कुशैब्रह्मा तदर्द्धन तु विष्टरः” । इति आचार्यपुत्रेण ग्टह्यासंग्रहे व्याख्यातः। कात्यायनेन तु कर्मप्रदीपे,
"यज्ञवास्तुनि मुख्याञ्च स्तम्बे दर्भवटी तथा ।
दर्भमंख्या न विहिता विष्टरास्तरणेष्वपि”। इति विटरे दर्भसंख्या निषिद्धा । तदनयोर्विकल्पः,-पञ्चाशदी कुशैविटरः स्यात् , असंख्यातेवा, इति । कथं ज्ञायते ? । दयोरेवास्मदाचार्याभ्यामनुशिष्टत्वात् अनन्यगतेर्वचनात् । सम्भवे पञ्चाशदर्द्वरसम्भवे पुनरपरिमितैरपि कुशेर्विटरो भवति, इति नारायणोपाध्यायाः । रघुनन्दनस्तु दर्भमंख्यावचनमाचार्य्यपुत्रस्येत्येतदजानान: कात्यायनवचनविरोधात् तद्वचनं शाख्यन्तरीयमितिवर्णयन् कत्यनारसिकत्वमात्मनः ख्यापयाञ्चकार । अन्यदपि दर्भवटुप्रसङ्गात् पूर्वमेव व्याख्यातम्।
5C
For Private and Personal Use Only