________________
Shri Mahavir Jain Aradhana Kendra
७५४
www.kobatirth.org
गोभिलीय
[४ प्र. १० का . ]
तथाच वाजसनेयके प्रवचने । “यत्रचा श्रागच्छति, सबै ग्टह्या इतरे तत्र वेष्टयन्ति, अथेह परित्राता भवति " - इति ॥ ० ॥ १ ॥ ० ॥
एवम विषूपतिष्ठमानेषु खल्वयमर्हणीयः -
"
Acharya Shri Kailassagarsuri Gyanmandir
कुत्र प्रतितिष्ठमाना जपेत् ?
इदमहमिमां पद्यां विराजमन्नाद्यायाधितिष्ठामीति प्रतितिष्ठमाना जपेत् ॥ २ ॥
प्रतितिष्ठमानः ऊर्द्धस्तिष्ठन्, इदमहमिति मन्त्रं जपेत् । श्रर्थात् जपानन्तरमासने उपविशेत्। कथं ज्ञायते ? | 'इदम्' श्रमनम् अधितिष्ठामि - इति मन्त्रलिङ्गात् । समस्तमन्त्रान्नानं किमर्थम् ? । निराकाङ्क्षत्वार्थमहममुक इति नामादेशो नास्तीति प्रज्ञापनार्थम् । समाम्नायप्रज्ञापनार्थञ्च ॥ ० ॥ २ ॥ ॥
و
यचैनमर्हयिष्यन्तः स्युः ॥ ३ ॥
यत्र यस्मिन् प्रदेशे, एनमर्हणीयमर्हयिष्यन्तः - श्रईणं करिष्यन्तः श्रईयितुमिच्छन्तः इत्येतत् । स्युः भवेयुः ग्टह्याः । बहुवचनं व्याख्यातम् । तत्र प्रदेशे प्रतितिष्ठमानो जपेत् ॥ ० ॥ ३ ॥०॥
यदा वाऽर्हयेयुः ॥ ४ ॥
यदा यस्मिन् काले, अर्हयेयुरर्हणं कर्त्तुमारभेयुः । बहुवचनं पूर्व्यवत् । तदा वा प्रतितिष्ठमानो जपेत् इति गतेन संबन्धः ।
एवं वा
For Private and Personal Use Only