________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
[४ प्र. ८ का.]
रह्यसूत्रम् ।
७५१
तस्य वेलायां रात्रावित्यर्थः । कुतः? । दिवाखापस्य निषेधात् । वैणवम्-वेणवंशः तद्भवं, दण्डं यष्टिम् , तुरगोपाय, इति मन्त्रण उप समीपे-शयनमन्निधौ, इत्येतत् । निदधीत धारयेत्। दध धारणे । निशब्दप्रयोगात्तत्रैव निश्चलं धारयेत् , न तु मन्त्रप्रयोगं कृत्वा अन्यचापनयेत् ॥०॥ १७ ॥ ॥ किमर्थं धारयेत् ?
स्वस्त्ययनार्थम् ॥ १८॥
मङ्गलप्राप्त्यर्थम्-चौराद्युपद्रववारणार्थमित्येतत् ॥०॥ १८ ॥०॥
हतस्ते अविणा कृमिरिति कृमिमन्तं देशमद्भिर
भ्युक्षन् जपेत् ॥ १६॥ कृमयः प्रसिद्धवाः व्रणेषु जायन्ते । कमयो विद्यन्ने यस्मिन् , तं कृमिमन्तम्, देशम्-प्राणिव्रणप्रदेशम् , न तु गोमयादि। कथं ज्ञायते ? । प्राणिपीडापनयनकर्माधिकारात् । तत्राप्युत्तरसूत्रस्य पशुविषयत्वादेतस्य नरविषयतामवगच्छामः। तमिमं कृमिमन्तं देशं अभिरभ्युक्षन, इतस्ते, इत्यादि कृमिमन्त्रान् सानेव जपेत् । कथं पुनीयते सर्वेषां कृमिमन्त्राणामत्र विनियोग: ?- इति । उच्चते । कृमिमतो देश त्याभ्युक्षणे विनियोगविधानात् सर्वेषां कृमिमन्त्राणामत्रैव विनियोगमवगच्छामः । अन्येषां कृमिमन्त्राणं विनियोगान्तरादर्शनात् । न खच विनियुका एवान्ये कृमिमन्त्राः पद्यन्ते, इति युक्तम् । तस्मादत्तरत्राईणमन्त्राणां विनियोगोपदेशादिह सर्वेषामेव कृमि
For Private and Personal Use Only