________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
७५२
Acharya Shri Kailassagarsuri Gyanmandir
गोभिलीयं
मन्त्राणं विनियोगः,— इत्यादरणीयम् । अत्राप्यभ्यु क्षणसमकालमेव मन्त्रजपः । एवं कृते किल कृमिपीड़ोपशान्तिर्भवति ॥ ० ॥ १८ ॥ ० ॥ पशूनाञ्चेचिकीर्षेदपराले सीतालाष्टमाहृत्य वैहायसं निदध्यात् ॥ २० ॥
[४ प्र. ८ का. ]
पशूनां गवाश्वादीनां चेत् यदि, चिकीर्षेत् कर्त्तुमिच्छेत् । किम् ? । कृमिपीड़ोपशान्तिम् । कथं ज्ञायते ? । अधिकारात् । तदा, श्रपरान पूर्वा । सीता लाङ्गलपद्धतिः । तस्या लोटम्, लोष्ट: प्रसिद्धः, तमाहृत्य श्रानीय, वैहायसं श्राकाशस्यं निदध्यात् धारयेत्, - ग्टहपटलादिम्यं धारयेदित्येतत् । निशब्दः पूर्व्ववत् ॥ ० ॥ २० ॥०॥
तस्य पूर्व्वीह्णे पाश्शुभिः परिकिरन् जपेत् ॥ २१ ॥
तस्य लेाष्टस्य । पूर्वाह्णे - न पराते । श्रथ सिद्धत्वादेतदवाच्यम् ? श्रथेोच्यते,—कारणं वक्तव्यम् । उच्यते । एतदवचने खल्वपराह्ने, इत्यनुवर्त्तेत श्रतस्तन्निवृत्त्यर्थम्, - पूर्वाह्ने, – इत्युच्यते । पांशुभिः रेणुभिः, परिकिरन् – प्रकृतस्य पशेा: कृमिमन्तं देशम् । प्रकृतमेव मन्त्रं जपेत् । कुतः ? । तस्यैव प्रकृतत्वात् । मन्त्रान्तरानुपदेशाच्च । परिकिरणसमकालं मन्त्रजपा व्याख्यातः ॥ ॥ २१ ॥ ॥
-
,
इति महामहोपाध्यायराधाकान्त सिद्धान्तवागीशभट्टाचार्य्यात्मजस्य श्रीचन्द्रकान्ततकीलङ्कारस्य कृतौ गोभिलीयग्टह्यसूत्रभाष्ये चतुर्थप्रपाठकस्य नवमी काण्डिका ॥ ० ॥
For Private and Personal Use Only
--