________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
७५०
७५०
गोभिलीयं
[४ प्र. ६ का.]
अविमिथुनयाः क्षुद्रपशुकामः ॥ १४ ॥ क्षुद्रपाएकामः, अविमिथुनयोः-मेषमिथुनयोः, पुरीषाहुतिसहस्रं प्रकृताभिर्मग्भिः पूर्चवदेव जुड़यात् ॥०॥ १४ ॥०॥ वृत्त्यविच्छित्तिकामः कम्बूकान् सायं प्रातर्जुहुयात्
शुधे स्वाहा क्षुत्पिपासाभ्याः स्वाहेति ॥ १५ ॥ वृत्त्यविच्छित्तिकामः, इत्युक्तार्थम् । कम्कान् फलीकरणकक्कुशान् । सायं प्रातर्जुहुयात् , दुधे स्वाहा क्षुत्पिपासाभ्यां वाहेत्याभ्यां यजुगम्। अत्रापि मायमाहुतेः पुरस्तात् प्रातराहुतेश्च परस्तात् हामः स्यात् । क्षिप्रहामश्चायम् ॥०॥ १५ ॥०॥ माभैषीन मरिष्यसीति विषवता दष्टमद्भिरभ्युक्षन्
जपेत् ॥ १६॥ विषमस्यास्तीति विषवान् सर्पादिः । तेन दष्टम् ,-अविशेषात् पुरुष स्त्रियं वा। अनिरुदकेन अभ्युक्षन् श्राभिमुख्येन सिञ्चन्, माभैषीरिति मन्त्र जपेत् ,-श्रा विषप्रक्षयात् । कथं ज्ञायते ? । प्राणिपोडाऽपनयार्थत्वात् कर्मणः । अभ्युक्षन जपेत्, इति कुर्वन् अभ्युक्षणजपयोगिपद्यं दर्शयति ॥०॥ १६ ॥०॥ तुरगोपायेति स्नातकः सम्बेशनवेलायां वैणवं
दण्डमुपनिदधीत ॥ १७॥ सातको ग्टहमेधी। सम्बेशनं शयनं स्वापो निद्रा, इत्यनर्थान्तरम् ।
For Private and Personal Use Only