________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
गोभिलीयं
[४ प्र. ६ का.]
प्रतिभयेऽध्वनि वस्त्रदशानां ग्रन्थोन बध्नीत ॥८॥ भयमेव प्रतिभयम् । प्रतिरुपसर्गः । प्रकर्षवाची वा । तेन, प्रकपण भयं प्रतिभयम्, इत्यर्थः । अथवा । प्रटासन्नं भयं प्रतिभयम् । अध्वनि पथि, प्रतिभये,-प्रत्यासन्ने भयहेतौ मति, इत्येतत् । वस्त्रदशानाम,-वस्त्रं वासः, अविशेषादधरीयमुत्तरीयच्च स्वकीयमेव भयते । तस्य दशानां ग्रन्थीन् , बहुवचनात् त्रीनेव, बध्नीत । अन्नं वा एकच्छन्दस्यम्, इत्येतत्प्रभृतिभिस्तिस्मृभिर्चग्भिः । कुतः । एतामामेव प्रकृतत्वात् । मन्त्रान्तरानुपदेशाच्च । आह । श्रानन्तातिरेकात् तृतीययैव स्यात् ? । उच्यते । “स्वाहाकारान्ताभिः'-दूति वक्ष्यमाणसूत्रात् तिहभिरेव स्यात्, न पुनरानन्तातिरेकात् त्तीययैव । अतिक्रान्तसंबन्धस्थाप्याचा-नुमतत्वात् ॥०॥ ८ ॥॥ खवाससोदशाभावे कथम्? । उच्यते,
उपेत्य वसनवतः॥६॥
वसनवतः, दशायुक्त वसनवतः, 'वस्त्रदशानां ग्रन्थीन् बध्नीत,'--इत्यनवर्त्तते । किं कृत्वा ? । उपेत्य । उप,-समीपम्, इत्वा-गत्वा ।
यमपरा सूत्रद्दययोजना,अध्वनि पथि, प्रतिभये मति, वस्त्रदशानां चीन ग्रन्थीन् बनीत, प्रकताभिर्मभिः । किमात्मनो वस्त्रदशानाम् ? । न । कस्य तईि? । 'उपेय वसनवतः'। वसनवतः सहगन्तुः कस्यचित्, वस्त्रदशानां ग्रन्थीन् बध्नीत । किं कृत्वा? । उपेत्य । एवं वा,'प्रतिभयऽध्वनि वस्त्रदशानां ग्रन्थीन् बध्नीत' । अर्थादात्मनः । न
For Private and Personal Use Only