________________
Shri Mahavir Jain Aradhana Kendra
[४ प्र. ट का. ]
www.kobatirth.org
5 B
गृह्यसूत्रम् ।
Acharya Shri Kailassagarsuri Gyanmandir
मुपतप्यमानं भवति । तत उपतप्यमाने सति गोष्ठे होमः करणीयः, - दूति । अपरे पुनरेतदविद्वांसो भासन्ते – “गोष्ठस्योपतापासम्भवात् गोष्ठसंबन्धागोषु उपतप्यमानासु - इति द्रष्टव्यम् " - इति । तदेवं विदूयमाने गोष्ठे चीवरं जुहुयात् । चीवरशब्देन लौहचूर्णमुच्यते । कुतः ? । “लोहचूर्णञ्च चीवरः” – इति वचनात् । तदत्र चीवरविधानादाज्यस्य निवृत्तिः स्यात् । पूर्खेाकधमंबधस्तु त्रापि स्यादेव । तत्सम्बन्धेनैवोपदेशात् । या खल्वियं तृतीयाऽऽतिराज्येन ग्रामे स्यात् सैव पश्शुकामस्य सतः चीवरेण गोष्ठे भवति, इति खल्ववोचाम | अत्र पुरुषाधिपत्यकामकलोऽपवर्गः ।
"
श्रन्यः पुनरन्यथेमं ग्रन्थं वर्णयाञ्चकार, - ' गोष्ठपशुकामः - इत्यादिम्, – “पशुकामा गोष्ठे तृतीयामाज्यातिं जुहुयात् । पशुकाम:, - इति निरपेक्षश्रवणात् अधिकृताधिकारे च प्रमाणाभावात् सर्व्वस्यैव पश्शुकामस्य होमोऽयं, न पुरुषाधिपत्यकामस्यैव सतः पशुकामस्य – इति । तस्मात् पुरुषाधिपत्यकामकर्म्मणः कर्मान्तरमिदम् । एवञ्च श्रत्र अष्टरात्रोपोषणं न स्यात्, न वा उडुम्बरखुवादि - इति । कमान्तरमाह । 'विदूयमाने चीवरम्' । गोष्ठस्यो - पतापासम्भवात् गोष्ठसंबन्धाद्गोषु उपतप्यमानासु चीवरं लोहचूर्णं जुहुयात् । इदमपिकमान्तरम् । चिप्रचेामश्चायम् । एतेषां त्रयाणामपि कर्मणां सकृत् प्रयोगादेव फलं स्यात् । कुतः ? | “ श्रभ्यामानुपदेशात् " - इति ॥ ० ॥ ७ ॥०॥ अथेदानों कीन्तरमाह -
७४५
For Private and Personal Use Only