________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
[४ प्र. ६ का.
ग्रह्यसूत्रम् ।
७४३
दधि पयो यवागू वा', इत्येतस्य व्यावृत्त्यर्थं पुनराज्यग्रहणम् । एवञ्च, अत्र आज्यमेव नियम्यते” इति ॥०॥ ४ ॥०॥
अन्नस्य घृतमेवेति ग्रामे तृतीयाम् ॥ ५ ॥ अन्नस्य घृतम्, इत्यनेन भन्त्रेण हतीयामाहुतिं ग्रामे जुहुयात् । यमप्याहुतिराज्येनैव स्यात्। कुतः ?। द्रव्यान्तरानुपदेशात् । आज्यस्य च प्रकृतत्वात् । ग्रामेऽप्यनावेव होमो न ग्राम एव । 'ग्रामानिक्रम्य,' इत्येतद्वैपरीत्यमभिप्रयन् खल्वाचार्य:,-'ग्रामे,'-इत्याह,इति मिय्यते । ‘अग्निमुपममाधाय'-दुति खल्वनुवर्तत एव ।
ददमिदानी मन्दिह्यते। किमियमप्याहुतिरोदुम्बरवचममादिना आज्य तन्त्रेण स्यात्, उत क्षिप्रहामन्यायेन, ?-इति । अाज्य तन्त्रण, -इति ब्रूमः । कस्मात् ? । अधिकारात् । फलान्तरानुपदेशात् ; तृतीयत्ववचनाच्च ; बैककमर्यावगतेश्च । अन्यथा खल्वभिधानादेव तृतीयत्वप्राप्तेस्तृतीयामिति वचनमनर्थकं स्यात् । तस्मात् ,-संख्यावचनादककम्यं प्रतिपादयन् पकिधर्मसम्बन्धमत्रापि दर्शयति,इत्याम्थेयम् ।। ०॥ ५ ॥०॥
गोष्ठे पशुकामः ॥ ६ ॥ गोष्ठे गवामावासे, अग्निमुपसमाधाय प्रकृतामाहुतिं जड्यात् । कः ?। पएकामः । पशब्देन गौरेवाभिप्रेयते। कथं ज्ञायते ? । गोष्ठे,-इति तस्वैव हृदयागतत्वात् , तत् परित्यागे च कारणविशेषाभावात् । पशब्देनाविशेषात् गामेषमहिषादय उच्चन्ते, इति केचित् ।
For Private and Personal Use Only