________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
७१२
गोभिलीयं
(
प्र. ६ का.
आज्यमादित्यमभिमुखा जुहुयात;-अन्नं वा
एकच्छन्दस्य श्रीवा एषेति च ॥ ४ ॥ श्रादित्यमभिमुखः,-आभिमुख्येनादित्यमुखः, अन्नं वा, दुति मन्त्रेण, श्रीवा, इति मन्त्रेण च, श्राज्यं जुहुयात् । पृयमन्त्रद्वयनिर्देशः,आहुतिदयार्थः । आदित्यमभिमुखः, इति वचनात् प्रातराहुत्यनन्तरमेव होमोऽयं करणीयः, इत्यवगच्छामः । कथं कृत्वा ?। एवं खल्वादित्याभिमुखता प्रामुखता च होतुः मम्पत्स्यते । तथाच मति, न कस्यापि शास्त्रस्य उपरोधो भविश्यति । इतरथा प्रामखशान्वं वा उपरोत्स्य ते, आदित्याभिमुखशारत्र वा। तच्चानिशम् । ननु, आज्यम् -इति किमर्थम् ?। आज्येन होमार्थम् । नन, अवचनेऽपि तदेव प्राप्नोति ? । प्राप्नोति । अनर्थकं तर्हि ? । न, इत्युच्यते । कस्मात् ? । यस्मात् प्राज्यमित्यवचने अनादेशबलात् तत् प्राप्नोति, वचनेऽपि आदेशबलात् तदेव प्राप्नोति । तत् किमत्र चोद्यम् ?-इति न खल्वधिगच्छामि। आदेशे खल्वेतत् वचनमाज्यस्य प्रापकं भवति, अनादेशे चान्यद्वचनम् । अनादेशे प्रापकं तु वचनमवष्टभ्य, श्रादेशवचनमाचिक्षिपति भवान्। नचैतदुचितम् । प्राचार्यच्छाधीनत्वादादेशानादेशयोः ।
अथ, प्रयोजनान्तरमन्तरेण न ते परितोषः ;-रण, तदपि । आज्यमित्यवचने मन्त्र लिङ्गादन्नेन होममपि कश्चिदाशवीत कदाचित्, इति इमामधिकामाशङ्कां निरमितुम्,-आज्यम् , इत्याचार्य: सूत्रयाञ्चकार, इति लिप्यते । अपर आह । “ 'मर्पितैलं
For Private and Personal Use Only