________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
गोभिलीयं
[४ प्र. ८ का.
स्थादेव । अनन्यगतिकत्वात् । किं पुनरत्र कारणम् ? ;-प्रादुष्करण होमयोळवाय आश्रयितव्यो न सायं प्रात हामयोः, इति । उच्यते । आश्रयिष्यामः प्रादुष्करणहोमयोर्यवायम्, अनाश्रमन्तः सायं प्रातहामयार्यवायं करिष्यामः। न च गुणस्य अव्यवायं उपपादयितुं प्रधानयोर्यवायः युक्त श्राश्रयितुम् । तस्मात्, यथोतमेवास्तु । म खन्वयं होमो वर्षासु प्रत्यहं करणीयः। कुतः ?। तत्रैव हरित गोमयोपपत्तेः । तथा चोकम् ।
"मायं होमस्य पुरतः परस्तात् प्रातराहुतेः ।
आर्द्र वर्षासु जुहुयात् प्रत्यहं गोमयाहुतिम्" । इति । एवन्तावदेकाक्षायां चत्वारि काण्यभिहितानि॥०॥१८॥०॥ मन्त्रान्तरविनियोगं विवक्षुः कान्तरमिदानीं वकुमारभते,-- विरात्रोपोषितः पण्य हामं जुहुयादिदमहमिमं
विश्वकमाणमिति ॥ १६ ॥ त्रिरात्रोपोषितः, इत्युक्तार्थम् । 'काम्येषु त्रिरात्राभोजनम्'-इति सिद्धत्वादेतदवाच्यम्, इति चेत् । न । मिद्धमेव पुनरुच्यते । किमर्थम् ? । आदरार्थम् । अथवा। नियमार्थमेतद्भविस्यति,-त्रिरात्रीपोषित एव पण्यहोमं जुहुयात्, इति । किमतः ? । एतदता भवति,–'त्रीणि वा भकानि'-इत्येतत् पक्षान्तरमिह न भवति,--- इति ।
पण्यं विक्रयद्रव्यं भण्यते। पण्याय होमः पण्यहोमः । तम्पण्यहोमम् , 'ददमहम् ,' इति मन्त्रेण क्षिप्रहामन्यायेन जुहुयात् ।
For Private and Personal Use Only