________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
गृह्यसूत्रम् ।
[8 प्र.का. ]
७३९
आह । केन द्रव्येण जुहुयात् ? | द्रव्यानादेशादाज्येन । एवमेके । उत्तरसुचदर्शनात् पण्यावयवेन । एवमपरे । येषां पठानामवयव होमाद् विनाश:, - यथा मणिरत्नादीनाम्, तेषामाज्येन, येषां पुनवयवामादपि न विनाश:, - यथा धान्यादीनाम्, तेषामवयवेनैव होमः । एवमन्ये । किं पुनरत्र युक्तम् ? । पण्यावयवेन - इत्याह। कुतः?। उत्तरसुचादेव । पण्यशब्दो वृद्धावपि प्रयुज्यते,— इति तस्याप्यत्र ग्रहणमिच्छन्ति । एका चेयमाहुतिः । सकृच्च प्रयोगः ॥
॥ ० ॥ १८ ॥ ० ॥
वाससस्तन्तून् ॥ २० ॥
वासमः पण्यस्य तन्तून् दशासूत्राणि जुहुयात्, पूर्वेकेन विधिना ॥
11 0 11 3 0 11 0 ||
गोबीलान् ॥ २१ ॥
गाः पण्यस्य बालान् लाङ्गूललोमानि जुहुयादित्यनुवर्त्तते ॥ ० ॥ २१ ॥ ० ॥ एवमितरेभ्यः पण्येभ्यः ॥ २२ ॥
इतरेभ्यः पण्येभ्यः सकाशात्, एवमवयवमुद्धृत्य जुहुयात् । अत्र पण्यहोमकर्मणः परिसमाप्तिः । फलमप्यस्य कर्मणः पण्यमेव कल्पयितव्यं भवति । कुतः ? | उपस्थितत्वात् । पद होममिति वचनाच्च ॥०॥
॥ २२ ॥ ॥०॥
पूर्ण होमो यजनोयप्रयेागः ॥ २३ ॥
'पूर्ण हामं यशसे जुहोमि' - इति पूर्णशब्देोपलक्षितेन मन्त्रेण हामः
512
For Private and Personal Use Only