________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
[४ प्र. ७ का.]
एहसूत्रम्।
७२५
अभिहितञ्चैतत् सर्वमासाभिरधस्तात्,-"अथ मस्तूपं स रक्षोजनेभ्यः”इत्यत्र ॥०॥ ४२ ॥०॥ प्रासङ्गिकमभिधाय प्रकृतमेव पुनर नुवतीमहे,
संवत्सरे संवत्सरे नवयज्ञयावी ॥४३॥ वाशब्दस्योभयत्रान्वयः कर्त्तव्यः । नवयज्ञयोः,-दूत्येतदपि वीमितं द्रष्टव्यम् । तेनायमर्थः । संवत्मरे संवत्मरे वा नवयज्ञयोर्नवयज्ञयो वा नित्यप्रयोगः, इत्यनुवर्तते । नवयज्ञयोरिति द्विवचनकरणात् बीहियवयज्ञयोरिति बोद्धव्यम् । श्यामाकयज्ञस्य तु वनस्थविषयत्वादिह नोल्लेखः ।
आह । कस्य नित्यप्रयोगः ? । यथोक्तस्य कर्मणः, इत्याचक्ष्महे । कस्मात् ? । “अव्यक्तं प्रधानगामि"-इति वचनात् । तथाच मामविधाने ब्राह्मणे । “अथातो वास्तुशमनम्"-इत्येतस्मिन् प्रकरणे, "बहुपधनधान्यहिरण्यमायुमत्पुरुषं वीरसः सुभगा अविधवस्त्रीकं शिवं पुण्यं वास्तु भवति, चतुषु मासेषु प्रयोगः संवत्सरे वा पुनः प्रयोगः”-इत्याम्नातम् । तस्मात् ,-प्रकृतस्य बलित्रयस्य प्रयोगः,इत्यसङ्गतैषा वर्णना। मामविधाने खवहरहर्बलित्रयस्योपदेशविरहात् प्रकृतस्यैव कर्मणः पुनः प्रयोगोऽवगम्यते । तस्मादिहापि तथैव वर्णयितुमुचितम् ॥०॥ ४ ३ ॥०॥
इति महामहोपाध्यायराधाकान्तसिद्धान्तवागीशभट्टाचार्यात्मजस्य श्रीचन्द्रकान्ततकालङ्कारस्य कृतो गोभिलीयग्टह्यसूत्रभाष्ये चतुर्थप्रपाठकस्य सप्तमी काण्डिका |॥०॥
For Private and Personal Use Only