________________
Shri Mahavir Jain Aradhana Kendra
७२४
www.kobatirth.org
गोभिलीयं
Acharya Shri Kailassagarsuri Gyanmandir
[४ प्र. ७ का. ]
विशेषवचनस्य खल्वर्थवत्त्वार्थं सामान्यवचनस्योपरोध दुव्यत एव । न च विकल्प:, अतुल्यबलत्वात् । सामान्यविशेषयोर्विकल्पस्य क्वचिदप्यदर्शनात् । उपजीव्यश्च खल्वाचार्यः कात्यायनस्य, इति नैतदन्यथयितुं शक्यम् । सामविधानब्राह्मणेऽप्येवमेवैतत् समाम्नायते इति नात्र विकल्प युक्तः कल्पयितुम् । अपरे पुनरेतदविद्वांसेा भाषन्ते,— “ब्रह्मणे, — इत्यत्रान्ते नमस्कारः स्यात् । कुत: ? । प्रकृतौ तथा दृष्टत्वात् । यथेोपदेशं वा स्यात् । उपदेशमामर्थ्यात् । एवञ्चेत्, विकल्प:, तुल्यबलत्वात् " - इति ।
सुभूमिकरणमुभयतश्चाद्भिः परिषेकश्च प्रकृतिवदत्रापिकर्त्तव्यः ॥ ॥ ० ॥ ४१ ॥ ० ॥
प्राच्चूर्द्धावाचीभ्योऽहर हर्नित्यप्रयोगः ॥ ४२ ॥
'3
प्राच्चूर्द्धावाचीभ्यः,—तत्तद्देवताभ्यः, — इत्येतत् । श्रवाची खन्दिहाधोदिगभिप्रेयते । कथं ज्ञायते ? । तद्वलेरवाचीनं दीयमानत्वात । सन्निहित पठितस्योर्द्धस्य वैपरीत्याच्च । तथाच नित्यबला कर्माप्रदीपः । “इन्द्राय वासुकये ब्रह्मणे” – इति । एताभ्यः खलु देवताभ्योऽहरहः प्रत्यहं, नित्यप्रयोगः - नित्यमवश्यं प्रयोगोऽनुष्ठानं कर्त्तव्यः बलीनाम् । एताभ्यो देवताभ्यः प्रत्यहं बलिहरणमवश्यं कर्त्तव्यमित्यर्थः । तदिदं प्रसङ्गादव सूचितम् । अहरहरिति प्रत्यहकरणार्थम् । नित्यपदमावश्यकत्वार्थम् । क्रमश्च पूर्वसूत्रोक्त एव स्यात् । वैपरीत्ये कारणाभावात् । क्रमभेदः खल्वि है। ईवैपरीत्येनावाची ग्रहणार्थ:, - इत्यवोचाम । स्वस्तितः खल्दयमेवक्रमः कर्मप्रदीपकृता ।
For Private and Personal Use Only