________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
[४ प्र. ७ का. ]
स्यात् । देशकीर्त्तनस्य खल्वभावे, तत्तद्देशानामेव वलीनां ते ते मन्त्राः, — इत्यत्र कारणविशेषाभावात् यथापठितैरेव मन्त्रैरादिता दिनु ततेा विदिक्षु बलिहरणोपपत्तेर्व्यतिहारस्य वक्तुमशक्यत्वात् इत्यस्तु किं विस्तरेण ॥ ० ॥ ४० ॥ ० ॥
गृह्यसूत्रम् ।
७२३
यस्यानुपूर्व्यस्य येषाञ्च मन्त्राणां व्यतिहारो निषिद्धः, त इदानीमभिधीयन्ते देवताश्च बलीनाम्, -
इन्द्रायेति पुरस्ता हायव इत्यवान्तरदेशे यमायेति दक्षिणतः पितृभ्य इत्यवान्तरदेशे वरुणायेति पश्चान्महाराजायेत्यवान्तरदेशे सोमायेत्युत्तरता महेन्द्रायेत्यवान्तरदेशे वासुकय इत्यधस्तादूर्द्धं नमो ब्रह्मण इति दिवि ॥ ४१ ॥
ऋजुरक्षरार्थः । अधस्तादिति नीचेदीनमुपदिशति । ऊर्द्धमिति ब्रह्मबलावन्वेति । ऊर्द्धम्, -इति ऊर्द्धमुत्क्षिप्य दानार्थम् । दिवि - इति दिवं मनसि निधाय निक्षेपार्थम् । वलिहरणमन्त्राणाञ्चामी - षामन्ते नमस्कारः स्यात् । कुतः ? |
"मुझे नम इत्येवं बलिदानं विधीयते ।
बलिदानप्रदानार्थं नमस्कारः कृतो यतः” ।
इति प्रकृतौ तथादर्शनात् । पितृभ्यः, -- इत्यत्र चान्ते स्वधाकारः स्यात् ।
कस्मात् ? ।
“स्वधाकारेण निनयेत् पित्र्यं बलिमतः सदा” ।
इति वचनात्। ब्रह्मबलौ तु यावदुक्तत्वादादित एव नमस्कारः स्यात् ।
4 y 2
For Private and Personal Use Only