________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
७२२
गोभिलीयं
[४ प्र. ७ का.]
श्रादरार्थम्, इति ब्रूमः । श्राह । ननु, सूत्रमेवैतदवाच्य, पूर्वसूत्राभ्यामुत्तरसूत्रेण चैतस्य गतार्थत्वात् । उच्यते। नैष दोषः। कस्मात् ? । सामान्यप्राप्तेविशेषकथनस्यापुनरुतत्वात् । लेखशैली खल्वियमाचा-- णाम्। ते खल्वादितः सामान्येनाभिधाय पुनस्तदेव विशेषेणाभिदधते । सोऽयमलङ्कारो न दोषः। एतस्मिन् खल्वनुक्ने पूर्वसूत्रदयक्रमानुरोधान्मन्त्रान् विहृत्य किमादितः सर्वासु दिक्षु बलिहरणं ततोऽवान्तरदेशेषु ? उत उत्तरसूत्रानुसारात्तदुक्रेनैव क्रमेण ? उताहो उभयत्रापि पाठक्रमस्याविशेषात् विकल्प: ?, दूति कदाचित् शिव्या मुह्येयः, अतः परमकारुणिक श्राचार्यः सूत्रमिदं रचयाञ्चकार । नन तथापि न ज्ञायते ;-प्राचीनस्य पराचीनस्य वा क्रमस्यानुपर्व्यमभिप्रेतम्, इति । पराचीनस्य,-इत्याह । कुतः ?। यतः प्राचीनस्य क्रमस्यानपूर्व्य खल्वभिप्रेयमाणे मन्त्राणां व्यतिहारः स्यात् । तच्चानिष्टम् । उत्तरसूत्रतात्पर्य्यपालोचनाच्चैवमवगच्छामः । यदितावत् प्राचीनस्य क्रमस्यानुपूर्वीमिहाभिप्रेतमभविष्यत् , नूनमुत्तरत्र पुरस्तात् , इति, अवान्तरदेश, इति चैवमादिदेशकीर्तनं नाकरिव्यत् । अकार्षांचाचार्यः । तस्मादवगच्छामः.-न प्राचीनस्य क्रमस्थानुपूर्व्यमिह प्रतिपिपादयिषितम्, इति । अथ, तथाप्युत्तरसूत्रे देशकीर्त्तनमनर्थकम् ;-ननु मन्त्राणं व्यतिहारनिषेधादेव प्राचीनस्य क्रमस्थानुपूर्व्यमत्र न भविष्यति, इत्युतम् । सत्यमुक्तम् । तत् खल्वेतदुत्तरत्र देशकीर्त्तने सति शक्यते वक्त म्। न पुनरन्यथा । कथम् ? । देशकीर्तनबलात्तत्तद्देशानामेव बलीनां ते ते मन्त्राः भवन्ति । तत्रादितो दिक्षु, ततो विदिक्षु च बलिहरणे मन्त्राणं व्यतिहारोऽवर्जनीयः
For Private and Personal Use Only