________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
[ प्र. ७ का.] रह्यसूत्रम् ।
प्रदक्षिणं प्रतिदिशम् ॥ ३८॥ वलीन् हरेत्, इत्यनुवर्तते । जुरक्षरार्थः । अथ, प्रदक्षिणम्,इत्येतदवाच्यम् ? ; ननु प्रकृतावेव प्रादक्षिण्यस्य सिद्धेः । नैष दोषः । कस्मात् ? । यस्मात् प्रकृतस्याग्नेः प्रादक्षिण्येनात्र वलिहरणमित्येतत् प्रतिपिपादयिषया प्रदक्षिणमित्याह । अन्यथा विशेषाभावात् कर्त्तरपि प्रादक्षिण्यं स्यात् ॥०॥ ३८ ॥०॥ किं केवलासु दिक्षु ? । न । क्व तर्हि ?
अवान्तरदेशेषु ॥ ३९ ॥ बलीन् हरेत्, इत्यनुवर्त्तत एव । चशब्दोऽत्र लुप्तवत् द्रष्टव्यः । अवान्तरदेशेषु च बलीन् हरेदित्यर्थः। दिशोर्दिशोरन्तरालमवान्तरदेशः,-इत्याख्यायते ॥०॥ ३८ ॥१॥ अथेदानी, कथं बलीन् हरेत् ?, इत्येतत् प्रति वकुमारभते,
आनुपयेणाव्यतिहरन् ॥ ४० ॥ पूर्वं पूर्वमनु,-इत्यनुपूर्वम्, तस्य भाव आनुपूर्व्यम्, तेन श्रानुपूर्थेण, बलीन् हरेत्, इत्यनुवर्त्तत एव । किं कुर्वन् ? । अव्यतिहरन् । व्यतिहारमकुछन् । व्यतिहारो व्यत्यास: पौर्वापर्यविपर्ययः, इत्यनर्थान्तरम् ।
कस्य पुन य॑तिहारो निषिध्यते ? । श्रानुपूर्व्यस्थेत्याह । कुतः? । सन्निधानात् । मन्त्राणम्, इति च प्रतिपद्यामहे । कस्मात् ? । तेषामपि बौद्धमन्निधानस्य सम्भवात्। न क्तव्यं तर्हि ? ननु विधानमाम देव व्यतिहारो न भविष्यति, अथोच्यते; कारणं वक्तव्यम् ।
4Y
For Private and Personal Use Only