________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
७२०
गोभिलीयं
18 प्र.७ का.
- हामशेषेणैव वलिहरणं यथास्थात्, इति । अथ वा । हुत्वा,इत्येतदवचने, 'प्राक् विष्टकत आवापः' इति सूत्रणात् उपन्यासक्रमाच्च खिष्टकद्दामादागेव वलिहरणम्, इत्यपि कदाचिदाशङ्का स्यात् कस्थचिदिति, हुत्वा, इत्याह । कथं नाम ? । विष्टकदादिकमपि हुत्वा वलीन् हरेत्, इति । अन्ये त्वाहुः । “कापवर्गविहितं वामदेव्यगानमिदानी माभूदित्यतः, हुत्वा, इति वचनम् । कथं नाम ? । हुत्वा वलीन् हरेत् ततो वामदेव्यं गायेत्”-- इति ।
ननु, दश,-इत्यपि अनर्थकम् , दशानामेवोपरिष्टादपदेशात् अन्तरेणाप्येतद्वचनं, वलीनां दशत्वं लभ्यत एव । उच्यते । "प्राच्यूछावाचीभ्योऽहरहनित्यप्रयोगः” इति सूत्रयिय्यमाणत्वादस्मिन् कर्मणि अनित्यत्वमपि कश्चिदाशङ्कीत । अतस्तन्निगमार्थं दश, दुति सूत्रञ्चकार । अथ वा । “प्रजापतये स्वाहेति मध्य उपहरेत्” इति सामविधानब्राह्मणे एकादशानां वलौनां हरणदर्शनात् अत्रापि मध्यतोऽप्यधिकं वलिहरणं स्थादितीमामधिकाशङ्कामपनेतुं दश,इत्याह । दशैवात्र वलयो भवन्ति न पुनः मामविधानवदंकादश । प्रजापतये स्वाहा, दूति होम एवात्र स्यात् न वलिः,—इत्यभिप्रायः । न चैवं ब्राह्मणविरोधः, इति शङ्कनीयम् । तस्मात् कल्पात् कल्पान्तरत्वादेतस्य । अत एव हामेऽपि तत्र विशेषः श्रूयते । स च तत्रैवानुसन्धेयः । तस्मात् , ब्राह्मणं कौथुमादिव्यतिरिक्तविषयं श्रौताग्निविषयं वा,-दूत्याम्येयम् ॥०॥ ३७ ॥०॥ अथेदानों क वलयो हर्तव्याः ? कथञ्च ?-इत्येतदतव्यम्। तदुच्यते,
For Private and Personal Use Only