SearchBrowseAboutContactDonate
Page Preview
Page 244
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir गोभिलीय-गृह्यसूत्रे चतुर्थप्रपाठके अयमी काण्डिका । श्रवणाऽग्रहायणीकर्मणोरक्षताञ्छिष्ट्वा ॥१॥ व्याख्याते श्रवणाग्रहायणी कर्मणी । तयोः कर्मणाः, अक्षतान् यवान् शिष्टा, अवशिष्टान् कृत्वा उर्वरितान् कृत्वा, इत्येतत् । अक्षतान् , -इति वचनादामादितानां यवानां मध्यात् पूर्वमेव भजनादवशेषः कर्त्तव्यः, न भर्जनात् परतः । कुतः ? । अनक्षतत्वात्तेषाम् । तथा चोकम् । “अक्षतास्तु यवाः प्रोका भृष्टा धाना भवन्ति ते" । इति । शिष्ट्वा, दूति करणाच्च, एतत् कभकरणार्थमक्षतानामवशोष; करणीयः, न तु यदि दैवादक्षताः शिय्यन्ते, तदैवतस्य कर्मण. करणम्, इत्युपदिशति ॥०॥ १ ॥०॥ प्राङ्वोदङ्वा ग्रामान्निष्कम्य चतुष्यथेऽग्निमुपसमाधाय हयेराक इत्येकैकयाऽञ्जलिना जुहु यात् ॥ २॥ प्राङ्मुखो वा उदङ्मुखो वा ग्रामानिर्गत्य । चतुष्पाथः प्रसिद्धः । तस्मिन् ‘अग्निमुपसमाधाय'-दूत्युतार्थम् । हयेराके, इति चतस्र ऋचः । तामामेकैकया ऋचा, अञ्जलिना-व्याकाषीकृतेन पाणिदयेन जुहुयात् ;-प्रकृतानक्षतान् । अथ, अग्निमुपसमाधाय, इत्ये For Private and Personal Use Only
SR No.020355
Book TitleGobhil Gruhya Sutram
Original Sutra AuthorN/A
AuthorChandrakant Tarkalankar
PublisherCalcutta Rajdhani
Publication Year1802
Total Pages606
LanguageSanskrit
ClassificationBook_Devnagari
File Size17 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy