________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
गोभिलीयं
[४ प्र. ७ का.]
अष्टगृहीतं गृहीत्वा जुहुयात् ॥ ३२ ॥ अष्टग्टहीतं ग्टहीत्वा श्रष्टकृत्वो ग्रहोतं कृत्वा, इत्येतत् । कस्मात् अष्टग्टहीतं ग्टहीत्वा ? । संमिश्रितात्, इत्याह । कुतः ? । मिश्रणस्य तदर्थत्वात् । पूर्व च तथैव दृष्टत्वात् । अत्र च, मध्यात् पूर्वाछादिति प्राकृतो धर्मा निवर्त्तते । कस्मात् ? । वैकृतस्य विशेषोपदेशण्यार्थवत्त्वात् । भृगणामपि नात्र कश्चिद्विशेषः । अन्ये त्वाः,"मन्त्रीतस्य मध्यपूर्वाद्धाभ्यां त्रिः ग्रहणात् षड़वदानानि भवन्ति, भृगूणान्तु मध्यपूर्वार्द्धपश्चादर्दुभ्यो दिः ग्रहणम्-तेन षड़ेव भवन्ति, पुरस्ताच्चोपरिटाचाज्यस्य, एवमटग्टहीतं भवति" इति । अवदानस्थानमत्रापि प्रत्यञ्जयेत् । कुतः ? । “प्रत्यनत्यवदानस्थानानि"इत्यविशेषेणेपदेशात् । तदाधे च कारणविशेषस्याभावात् ॥०॥ ॥ ३२ ॥०॥ जुहयात्, इति सामान्यत उनम्, अथेदानों तत्रैव विशेषोऽभिधीयते,
वास्तोष्यत इति प्रथमा॥३३॥
वास्तोष्यते, इति मन्त्रेण प्रथमा आहुतिहातव्या । अत्र किञ्चिइतव्यमस्ति । परस्तात् तदच्यामः ॥०॥ ३३ ॥०॥
वामदेव्यर्चः ॥ ३४ ॥
तिसः । ताभिः तिस्र आहुतयो होतव्याः ॥०॥ ३४ ॥०॥
For Private and Personal Use Only