________________
Shri Mahavir Jain Aradhana Kendra
०१६
www.kobatirth.org
"
गोभिलीयं
Acharya Shri Kailassagarsuri Gyanmandir
इति वास्तुविद्याविदुक्तं कुर्य्यात् इति । तदिदं कल्पान्तरं चशब्देन समुच्चीयते इति मन्यन्ते ॥ ० ॥ २६ ॥ ॥
मध्येऽग्निमुपसमाधाय कृष्णया गवा यजेत ॥ २७ ॥
[४ प्र. ७ का. ]
मध्ये प्रकृतस्य गृहस्याभ्यन्तरे, न तदर्थपरिग्टहीताया भूमेः । कथं ज्ञायते ? | सन्निहितपरित्यागे व्यवहितपरिग्रहे च कारणविशेषस्याभावात् । “पूर्वैः प्रोष्ठपदैर्गृहेऽग्निं प्रतिष्ठाप्य” – इति च सामविधाने ब्राह्मणे दर्शनात् । श्रग्निम् उपसमाधाय, — इत्युक्तार्थम् । कृष्णया कृष्णवर्णया गवा यजेत । मेयं स्त्रीगवी अभिप्रेता, - गच्छामः । कस्मात् कारणात् ? । कृष्णया – इति स्त्रीलिङ्गनिर्देशात् ॥०॥ २७ ॥ ॥
-- इत्यव
अजेन वा श्वेतेन ॥ २८ ॥
यजेत, — इत्यनुवर्त्तते । ऋजुरक्षरार्थः । वाशब्दाद् गोरभावे सत्ययं कल्पो बेोद्धव्यः ॥ ० ॥ २८॥॥
किं केवलया गवा ? केवलेन वा अजेन ? न । कथन्तर्हि ? -
सपायसाभ्याम् ॥ २६ ॥
पयमि भवश्चरुः पायसः । तत्महिताभ्यां गोऽजाभ्यां यथालाभमन्यतरेण यजेत । लाघवं चिकीर्षुः खल्वयमाचार्य्य:, सपायसाभ्याम्, —इति सूत्रयाञ्चकार, न पुनर्गेऽजयोः साहित्यं प्रतिपिपादयिषया । कथं ज्ञायते ? | अजेन वा इति वाशब्देन तयोर्विकल्पप्रतिपादनात् ॥ ० ॥ २८ ॥ ० ॥ गोरजस्य चालाभे. -
For Private and Personal Use Only