________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
[म. ७ का.
ग्रह्यसूत्रम् ।
७१५
“भवनस्य वटः पूर्व जातः स्यात् सार्वकामिकः । उनम्बरस्तथा याम्ये वारुणे पिप्पल: शुभः ।
प्लनचोत्तरतो धन्यो विपरीतो विपर्यये” । इति चैवमादि ॥०॥ २५ ॥०॥ यदा खल्वेतानश्वत्थादीनुद्धरेत् च्छेदयेद्दा, तदा तद्दोषशान्यर्थन्,
एताश्चैव देवता अभियजेत ॥ २६ ॥ एता अनन्तरोका देवता अभियजेत । एवशब्दात् यं वृक्षमुद्धरेत्
छेदयेदा तस्यैव देवतामभियजेत, न पुनः सर्वाः । चशब्दः पूर्वोतकल्पेन मम्वन्धकरणार्थः । सम्बन्धकरणस्य प्रयोजनम्,-यदा
खचिमे अस्वस्थानस्याः क्रियन्ते, तदेवायं कल्पो यथा स्यात्,इति । वृत्ते चैवं मम्बन्धकरणे, एवशब्दः पूकिप्रकारेण विशेषवोधको द्रष्टव्यः । अथवा । चशब्दः च्छेदनपने मनूतप्रायश्चित्तान्तरानुसन्धानार्थः । कथं नाम ? । एता देवताश्च अभिवजेत, ऋचञ्च जपेत्, इति । तथा च मनुः ।
“फलदानाञ्च वृक्षाणं छेदने जय्यमृक्शतम् ।
गुल्मवल्वीलतानाञ्च पुष्पितानाञ्च वीरुधाम्" । इति । कल्पान्तरसमुच्चयार्थमपि चशब्दं वर्णयन्ति । कथं नाम ? । यदि तानस्वस्थानस्यान् न कुर्थात् , तदा,
“छिन्द्याद् यदि न तरूं स्तान् तदन्तरे पूजितान् वपेदन्यान् । पुन्नागाशोकारिष्टवकुलपनमान् शमीशालौ” ।
42
For Private and Personal Use Only