________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
[प्र. ७ का.]
सह्य सूत्रम्।
प्राच्य उदीच्यो वा यत्रापः प्रवर्तेरन् ॥३॥ प्रायः प्रामुख्यः । उदीच्यः उदमुख्यः । वाशब्दो विकल्पार्थः । यत्र यस्मिन् स्थाने, पापः प्रवर्तेरन्, प्रकर्षेण स्वभावतो वर्तेरन् न तु क्रियेरन् । प्रवर्तेरन् स्वभावतो गच्छेयुः, न तु प्रयत्नान्तरेण, दति वा वर्णनीयम् । 'अवमानं जोषयेत'-इत्यनेन सम्बध्यते । यच्छब्दोऽयमुत्तरवाक्यगतः सामर्थात् पूर्ववाक्यगतं तच्छब्दं नापेक्षते । एवमुत्तरत्रापि द्रष्टव्यम् ॥०॥ ३ ॥०॥ अक्षीरिण्याऽकण्टका अकटुका यौषधयः स्युः ॥
॥४॥ क्षीरमिव क्षीरं भ्रो निर्यामा भण्यते । क्षीरं विद्यते यासां ताः क्षीरिण्यः, ता न भवन्तीत्यक्षीरिण्यः,-अर्कादिभ्यो भिन्नाः, इत्येतत् । अकण्टकाः, कण्टकरहिताः, मदनादिभ्योऽन्याः । अकटकाः । कटकाः कटुगुणयुक्ताः, ता न भवन्तीत्यकटुकाः निम्बादिभ्यो भिन्नाः । कटुस्तितम् । तदेवम्भूता ओषधयो यत्र यस्मिन् स्थाने, स्युः स्वभावता भवेयुः ॥०॥ ४ ॥०॥
गौरपाशु ब्राह्मणस्य ॥ ५ ॥ गौराः शक्लवर्णा: पांशवो रेणवो यस्मिन् , नत् गौरपांगु ब्राह्मणस्थ, अवमानम्, इति सम्बध्यते ॥०॥ ५ ॥०॥
लाहितपाशु क्षत्रियस्य ॥६॥
अवमानम् ॥०॥ ६ ॥०॥
+ ! 2
For Private and Personal Use Only