________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
गोभिलीय - गृह्यसूत्रे
चतुर्थप्रपाठकस्य सप्तमी का ण्डिका ।
अथेदानीं प्रकरणान्तरमारभते,
अवसानं जोषयेत* ॥ १ ॥
>
श्रवस्यन्ति निवसन्त्यस्मिन् — इत्यवसानं गृहार्थं भूम्यानमिहाभिप्रेतम्, न गृहमेव । कथं ज्ञायते ? । 'समं लोमशम्' - इत्यादि विशेषणानां सामर्थ्यात् । ' तत्रावसानं प्रागद्वारम् - इत्यादिसूत्रेणोपपत्तेश्च । तदिदमवसानं जोषयेत, - 'जुषी प्रोतिसेवनयो: ' - इति स्मरणात् सेवेत, परिगृह्णीयादित्येतत् ॥ ० ॥ १ ॥ ०॥ श्रवमानमिदानीं विशिनष्टि, चयोदशभिः सूत्र:
"
ममं लोमशमविभ्रशि ॥ २ ॥
समं समानम्, अनिम्नाच्चमित्यर्थः । लोमशम् । लोमानीव कोम - लानि तृणानि यत्र विद्यन्ते, तदिदं लोमशमित्युच्यते । अथ वा । 'तृणानि भूमेर्लेीमानि' – इति वचनात् यथाश्रुत एवार्थः । श्रविभ्रंशि । यत्र कृतस्य मनो नदीतीरभेदवृक्षपातमतङ्गजादिभिर्विभ्रंशो विनाशो न सम्भाव्यते, तदिदमविभ्रंशि । 'श्रवमानं जोषयेत' – इति सर्व्वत्र सम्बध्यते ॥ ० ॥ २ ॥०॥
* जोषयेत्, - इति पाठान्तरम् ।
For Private and Personal Use Only