________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
[४ प्र. ६ का.]
ग्राह्यसूत्रम्।
७०५
न तत्र ब्रह्मचर्यनियमः, इत्येतदर्थम् :-'आसमापनात्'-इत्याह । यद्यपि, पर्वत्वेन तत्रापि मैथुननिषेधोऽस्येव, तथापि निमित्तान्तरप्रयुक्तस्य तस्य काङ्गत्वं नास्ति,-इत्यभिप्रायः । एवं वा,तामिश्राणामन्तरे मध्ये यान्यहानि, तानि तामिश्रान्तराणि, तेषु तामिश्रान्तरेषु अहःसु ब्रह्मचारी स्यात् । बहुवचनात् प्रथमेऽपि तामिश्रे ब्रह्मचर्य प्राप्नोति । तामिश्रान्तरेषु कर्मोपदेशादवान्तरेष्वहःसु ब्रह्मचर्यं न स्यात्, इत्याशङ्कायामाह ;-आसमापनात्,-दूति । कर्मसमापनपर्यन्तमित्यर्थः । द्विवचनं प्रकरणकाण्डिकयो: समाप्लर्थमादरार्थञ्च ॥०॥१६॥०॥
इति महामहोपाध्यायराधाकान्तसिद्धान्तवागीशभट्टाचार्यात्मजस्य श्रीचन्द्रकान्ततीलङ्कारस्य कृतो गोभिलीयग्टह्यसूत्रभाय्ये चतुर्थप्रपाठकस्य षष्ठी काण्डिका ॥०॥
40
For Private and Personal Use Only