________________
Shri Mahavir Jain Aradhana Kendra
७.४
www.kobatirth.org
गोभिलीयं
Acharya Shri Kailassagarsuri Gyanmandir
[४ प्र. ६ का. ]
- इति । ब्राह्मणभोजनादे:, - इत्याह । कस्मात् ? । श्रावृता,इति करणात् । न खल्वर्द्धमासव्रतमावृत् । कर्तृधर्मः खल्वेतत् । कथं ज्ञायते ? | “ श्राचितशत कामोऽर्द्धमासव्रतः " - इति कर्तृविशेषणतयेोपन्यासात् । तस्मादर्द्धमामव्रतस्य न परामर्शः । श्रपि च । तस्यैव कर्मण श्रवृत्तिरिहेोपदिश्यते । अभ्यस्ते च कर्मणि सहदेव व्रतमन्यत्रेोपदिष्टम्,–“ नित्यप्रयुक्तानान्तु प्रथमप्रयोगेषु ” – इत्यत्र । तद्वदिहापि वर्णयितुमुचितम् । अपर श्राह । तामिश्रान्तरेषु ब्रह्मचारी स्यात् - इति व्रतान्तरोपदेशान्नार्द्धमामव्रतस्य परामर्शः । इतरथा अर्द्धमासव्रतादेव ब्रह्मचर्यस्य प्राप्तत्वात् तदवाच्यं स्यात्, - इति । तदपि न समीचीनम् । कुत: ? । श्रर्द्धमास्त्रते ब्रह्मचर्य्यस्य पूर्व्वमाचार्येणानुपदेशात् । प्रथमतामिश्रे तर्हि न प्राप्नोति ब्रह्मचर्यम् ? । मा प्रापत्, का नो हानिः । अर्द्धमामव्रतस्य पुरश्चरणरूपतया तवापि न तावतैव प्रथमतामिश्रे ब्रह्मचर्य्यस्य प्राप्तिः । यथा तु प्रथमेऽपि तामिश्रे प्राप्नोति ब्रह्मचर्यं तथा परता वर्णयिष्यामः || २ || १५ ॥ ० ॥
तामिश्रान्तरेषु ब्रह्मचारी स्यादासमापनादासमा - पनात् ॥ १६ ॥
अन्तरशब्देो मध्यवचनः । तामिश्रपक्षयोरन्तरे मध्ये यान्यहानि, तानि तामिश्रान्तराणि । पूर्व्वीपरयोस्तामिश्रयोर्निर्देशात् तन्मध्यपतितानि शुक्लपक्षदिनान्यपि सन्दंशपतितन्यायेन गृह्यन्ते । तेषु श्रहः सु ब्रह्मचारी मैथुनवज्र्जी, स्यात् भवेत् । श्रसमापनात् क समापन पर्थन्तम् । कर्मसमापनदिनस्य तामिश्रान्तरत्वेऽपि समापनात् परता
For Private and Personal Use Only