________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
गाभिलीयं
[प्र. ६ का.
प्रार्थ्यते । तथा हि चरितार्थत्वादाचितानाम्" इति । स खल्वयमाचितशतकामोऽईमासब्रतः सन्,-पूचीकन विधिना' अर्द्धमासं ब्रतं कृत्वा, इत्येतत् । तमिश्र एव तामिश्रः । तामिश्रस्य कृष्णपक्षस्य, आदी प्रतिपदीत्यर्थः । 'नीहिकांमौदनं ब्राह्मणान् भोजयित्वा' । ब्रीहयः प्रसिद्धाः । कांसशब्देन द्रोणपरिमाणं भएयते । कस्मात् ? । “ट्रोण: स्यात् कांसमानकः” इति वचनात् । बीहोणं कांसं व्रीहिकांस, व्रीहिकांसस्य ओदनो भतः ब्रीहिकांसौदनः, तं व्रीहिकांसौदनं ब्राह्मणान् भोजयित्वा । आह । व्रीहिकांसस्य, ब्रीहिकांमयोः, व्रीहिकांसानाम्, इति धैव विग्रहस्य मम्भवादेकत्वेन विग्रहे कारणं वक्तव्यम् ? । उच्यते । प्रथमोपस्थितत्वादेकवचनमयोगाच एकत्वेनैव विग्रहमाचक्ष्महे । व्रीहिकांमौदनमित्येकवचने श्रूयमाणे खल्वेकत्वमागच्छति हृदयम्, आगच्छति चेत्, -न युज्यते विनाकारणमुत्स्रष्टम् । उत्तरत्रापि, 'तस्य', इत्येकवचनमयोगेन ब्रीहिकांसस्य परामर्शाच्चैवमवगच्छामः । अपि च । द्वित्वबहुत्वाभ्यां विग्रहे ब्राह्मणबहुत्वं स्यात् । तच्चानिटम् । कस्मात् कारणात् ? । श्राद्धे तस्य दोषदर्शनात् । कारणस्य चाविशेषात् । तथा च मनुः ।
"मकियां देशकाली च द्रव्यं ब्राह्मणसम्पदः ।
पञ्चैतान् विस्तरो इन्ति तस्मान्नेहेत विस्तरम्” ॥ इति । तस्मात्, मक्रियाद्यनुरोधादत्राप्येकत्वेनैव विग्रहः, इत्यादरणीयम् ॥०॥१३॥०॥ तदेवं ब्राह्मणान् भोजयित्वा,
For Private and Personal Use Only