________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
[
प्र. ६ का.]
ग्टह्यसूत्रम् ।
O
स ख त्वयमलहमीनिर्णदो हामः,
यजनीयप्रयोगः । ४॥ यजनीयेऽहनि प्रयोगोऽनुष्ठानं यस्य, सोऽयं यजनीयप्रयोगः । पक्षादियज्ञदिने कर्त्तव्यः, इत्यर्थः । यद्यपि, यजनीयप्रयोगोऽयं, तथापि तदीयचरूणा न करणीयः, किन्तु द्रव्यानादेशादाज्येनैव स्यात् । एवं वायजनीयस्य प्रयोगोऽनुष्ठानं यस्य सोऽयं यजनीयप्रयोगः । न ख चस्य यजनीयप्रयोगत्वं विज्ञातं येनायमनुवादः स्यात्, किन्तु अविज्ञातं विधीयते । तेन, यजनीयवत् प्रयोगः, इत्यर्थः, सिद्धो भवति। तस्मात् धर्मप्रदेशोऽयम् । “उपोव्य तु यजनीयप्रयोगेषु”इति सृत्रित उपवासाऽत्र प्रदिश्यते । कथं पुनरसति वतिप्रत्यये वत्यर्थः शक्योऽवगन्तुम् ? । शक्यः, इत्याह । कथम् ? । यजनीयशब्दोऽयं कर्मणा सम्बन्धः तत् सहचरितं उपवासधर्म शक्नोति लक्षणया गमयितुम् । शक्नोति बेगमयितुं, प्रदेशुमपि पाहोति । एवं खल्वन्तरेणापि वतिप्रत्ययं वत्यर्थः शक्योऽवगन्तुम् । स खल्वय मर्थः मप्तमाध्याये प्रपञ्चितः, तत्रैवानुसन्धयः ॥०॥४॥ ० ॥ अथेदानीमलक्ष्मीनिर्णदो होमोऽभिधीयते,
मनाधिम इत्येकैकया ॥ ५॥
महाधिमे, इत्यादिकोऽष्टाऽत्राभिप्रेतो बोद्धव्यः । तामां खल्दयानाचामेकैकया ऋचा एकैका आहुति हातव्या । अलक्ष्मी
For Private and Personal Use Only