________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
गोभिलीय-गृह्यसूत्रे
चतुर्थप्रपाठकस्य षष्ठी का ण्डिका ।
1998
भूरित्यनकाममारं नित्यं प्रयुञ्जीत ॥ १ ॥
भूरित्ययं मन्त्रप्रतीकः । भूरित्यादिकमनकाममारं मन्त्रं नित्यमहरहः प्रयुञ्जीत । श्रनकाममारशन्देन, “भूर्भुवः स्वरो सूर्य्य व दृशे " - इत्यादिका मन्त्रो भण्यते । कुतः ? | योगात् प्रसिद्धेश्व । योगस्तावत् । मरणं मारः, काम इच्छा | कामेन मारो यस्मात् सेrऽयं काममारः, स न भवतीत्यकाममारः । न काममारोऽनकाममारः । इच्छयैव मरणं यस्मादित्यर्थः । प्रभिद्भिश्चाध्येत्तसम्प्रदायागता वोद्धव्या ॥ ● ॥ १ ॥०॥
न केवलमिच्छयैव मरणमस्मान्मन्त्रात् सम्पद्यते, अपि तु यः खन्वेतं मन्त्रमहरहः प्रयुङ्क्ते, तस्य, -
न पापरोगान्नाभिचाराद्भयम् ॥ २ ॥
पापरोगः कुष्ठराजयक्ष्मादिः । श्रभिचारः श्येनसन्दंशादिः । तस्मात् भयं न भवति ॥ ० ॥ २ ॥०॥
अलक्ष्मीनिर्णेीदः ॥ ३ ॥
अलक्ष्मीः प्रसिद्धा । तस्या निर्णेौदो निहीरो नाशकः, -- इत्येतत् । कः पुनरमा ? | वच्यमाणो होम: ॥ ० ॥ ३ ॥ ०॥
For Private and Personal Use Only