________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
[४ प्र. ५ का.]
रह्यसूत्रम्।
तस्मिन् प्रथमं पार्थिवं कर्म ॥ २३॥ तस्मिन् अधिकृते पञ्चई, तद्विषये, इत्यर्थः । प्रथममाद्यं कर्म पार्थिवम् । पृथियर्थं क्रियते, इति पार्थिवम्-ग्रामक्षेत्राद्यर्थम्इत्यर्थः । वर्त्तिव्यते,-इति सूत्रशेषः ॥०॥ २३ ॥०॥
अईमासमभुक्त्वा ॥ २४ ॥ कुर्थात्, इति सूत्रशेषः । अस्मात् विशेषोपदेशात् अत्र सामान्यस्य पुरश्चरणस्य त्रिरात्राभोजनादेनिवृत्तिरिति बोद्धव्यम् ॥ ० ॥ २४ ॥०॥
अशक्ती वा पेयामन्यतरं कालम् ॥ २५ ॥ अर्द्धमामाभोजनस्य खल्वशको प्रकृतमईमामं व्याप्य पेयां वा पीत्वा पार्थिवं कर्म कुर्यात् । “पेया श्राणाऽच्छमण्डयोः"--इत्याभिधानिकाः । किं सायम् ? । न । 'अन्यतरं कालम्' । प्रातवी मायं वा, इत्यनियमः ॥०॥ २५ ॥०॥
यत्रात्मानं परिपश्येत् ॥ २६ ॥ यत्र यस्मिन् काले पेयां पिवेत्, तस्मिन् काले प्रात्मानमात्मच्छायां परिपश्येत्-दर्पणादावितिवाक्यशेषः । एवं वा,यत्र यस्यां पेयायामात्मानं परिपश्येत् , तां पेयां पीत्वा, इति पूर्वोकां पेयामनेन विशिष्टि ॥०॥ २६ ॥०॥
एतद्दतमईमासव्रतेषु ॥ २७ ॥ यत्र यत्रा मामव्रतमुपदेच्यते, तत्र तत्र,-"आचितशतकामाऽई
482
For Private and Personal Use Only