________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
गाभिलीयं
[४ प्र. ५ का.
मामव्रतः" इत्येवमादी, एतत् अनन्तरोकं व्रतं बोद्धव्यम् ॥ ॥०॥ २७ ॥०॥ प्रासङ्गिकमभिधाय अथेदानी प्रकृतं पार्थिवं कमीह,
पौर्णमास्याराचावविदासिनि हदे नाभिमाचमवगाह्याक्षततण्डुलान्टगन्तेष्वास्येन जुहुयात्-स्वाहेत्युदके ॥२८॥
पौर्णमास्यां रात्री, इत्यतिरोहितार्थम् । “विदामः शोषः, म यस्य हुदस्यास्ति स विदामी । अविदामी ग्रीमेऽप्यक्षीणजलः, इत्यर्थः । तस्मिन् अविदासिनि हुदे” इति केचित् । श्राचार्य्यपुत्रस्तु श्राइ ग्टह्यासंग्रहे ।
"मध्ये स्थण्डिलमन्ते च वारिणा परिसंवृतम् ।
अविदामिनं इदं विद्यात्तादृशं कर्मणे विदुः” । इति । तदेतस्मिन् अविदासिनि हुदे, नाभिमानं नाभिपरिमितम् उदकम् अवगाह्य अवतीर्य्य, अक्षततण्डुलान्-अक्षता यवाश्च तण्डुलाश्च तान्–यवमिश्रान् ब्रीहितण्डुलान्, इति केचित् । अक्षतानां यवानां तण्डुलान्, इत्यन्ये । अपरे पुनर् अक्षतशब्देन तण्डुलानेव विशेषयन्ति ;-अक्षतानखण्डितान् तण्डुलान् , इति । तदत्र भवन्तो भूमिदेवाः प्रमाणम् । तानिमानक्षततण्डुलान् ऋगन्तेषु प्रकृतानां पञ्चानामृचामवसानेषु श्रास्येन मुखेन जुहुयात् वाहेत्युच्चार्य । कुत्र जुहुयात् ?। उदके जले। अनग्निकत्वादस्मिन् होमे स्वाहाकारविलोपं कश्चिदाशङ्कीत मन्दमतिरिति खल्वाचार्यः स्वाहेति सूत्रयाञ्चकार ।
For Private and Personal Use Only