________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
[४ प्र. ५ का.]
रह्यसूत्रम्।
वर्चमकामः पुत्रकामश्च । अथवा । ब्रह्मवर्चसकामः पाएकामश्च"इति । स खल्वयमुभयकामः, उभयेषु प्रागग्रेषु उदगग्रेषु च मिलितेवित्यर्थः । दर्भेष्वामीनः, अरण्ये प्रपदं प्रयुञ्जीत, इत्यनुवर्त्तत एव । सेयं त्रिसूत्री काम्यकर्मविधानार्था । काम्येषु च प्रपदः, इत्यस्य विशेषार्था,-इति केचित् ॥०॥ १७ ॥०॥ पशुस्वस्त्ययनकामा व्रीहियवहोमं प्रयुञ्जीत सहस्र
बाहुर्तीपत्य इति ॥ १८॥ पशूनां स्वस्त्ययनं मङ्गलमारोग्यमित्येतत् । तत् कामयते, इति पशुस्वस्त्ययनकामः। ब्रीहियवौ प्रसिद्धी। ताभ्यां होमो ब्रीहियवहोमः। तं प्रयुञ्जीत कुर्य्यात् , सहस्रबाहुरिति मन्त्रेण । क्षिप्रहोममत्रेच्छन्ति । पशुशब्देनात्र गावोऽभिप्रेयन्ते, इत्यवगच्छामः । कस्मात् ? । गौपत्य इति मन्त्रलिङ्गानुग्रहात् । वृहत् क्षुद्रपानामुपरिष्टाद्विशेषोपदेशाच्च ॥०॥ १८ ॥०॥
कातामतेन महावृक्षफलानि परिजप्य प्रयच्छेत् ॥
महागुणयोगात् महावृक्षोऽभिप्रेतः, न परिमाणमहत्त्वात् । एवमेके । महागुणयोगात् परिमाणमहत्त्वाच महावृक्षः । एवमपरे । कः पुनरमौ ? । यः कश्चिद्भोज्यफल: चूतनारिकेलादिः, इत्याह । महावृक्षम्य फलानि महावृक्षफलानि । कौतोमतेन कौतोमतशब्दवता मन्त्रेण :-"कौतोमतं संवननं"-इत्यादिना मन्त्रणेत्येतत् । परिजप्य प्रयच्छेत् दद्यात् ॥ ॥ १६ ॥०॥
For Private and Personal Use Only