________________
Shri Mahavir Jain Aradhana Kendra
६८
www.kobatirth.org
गोभिलीय
Acharya Shri Kailassagarsuri Gyanmandir
परिवेषादिकमाचमहे । तदिदं सान्निपातिकमुपरिष्टाद्वैतं भवति । दीक्षा. पुरश्चरणं त्रिरात्राभोजनादिकमित्येतत् । उपरिष्टात् कर्मणः पश्चात् दीक्षा यस्य तदिदमुपरिष्टाद् देवम् ॥ ० ॥ १३ ॥०॥ काम्यपरिभाषामभिधाय, अथेदानीं काम्यानि कर्माण्यभिधीयन्ते, - अरण्ये प्रपदं प्रयुञ्जीत दर्भेपासीनः ॥ १४ ॥
[४ प्र. ५ का. ]
अरण्ये प्रपदं यथोक्तलक्षणं प्रयुञ्जीत । कथम् ? । श्रासीनः उपविष्टः । क्क ? | दर्भेषु कुशेषु ॥ ० ॥ १४ ॥०॥ दर्भेषु, — इत्येतदिदानीं विशिनष्टि,— प्राक्कूलेषु ब्रह्मवर्चसकामः ॥ १५ ॥
ब्रह्मवर्चसमध्यवनाश्रयं तेजः । तत् कामयते इति ब्रह्मवर्चसकामः । स खल्वयं ब्रह्मवर्चसकामः, प्राक्कूलेषु प्रागग्रेषु, दर्भेय्वामीनः श्ररण्ये प्रपदं प्रयुञ्जीत —– इति सम्बध्यते । केचित् पूर्व्येण सूत्रेण महास्यैक सूत्रतामिच्छन्ति ॥ ० ॥ १५ ॥ ० ॥
उदक्कूलेषु पुत्रपशुकामः ॥ १६ ॥
पुत्रान् पशूंश्च यः कामयते, – सेाऽयं पुत्रपशुकामः, उदक्कूलेषु उदगग्रेषु दर्भेय्वासीनः अरण्ये प्रपदं प्रयुञ्जीत इत्यनुवर्त्तते ॥०॥
१६ ॥०॥
उभयेषभयकामः ॥ १७ ॥
ब्रह्मवर्चसकामः पुत्र पशुकामश्च
उभयं कामयते,—इत्युभयकामः मिलितेोभयकामः - इत्येतत् । अपर श्राह । “उभयकामः ' - ब्रह्म
;
For Private and Personal Use Only