________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
[४ प्र. ५ का. ]
लभ्यते, - इति समान एवार्थः । वाशब्दात् जघन्योऽयं पक्षः, तेनाशक्तस्यैव स्यात्, न तु शक्तस्यापि ॥ ० ॥ १० ॥ ०॥ नित्यप्रयुक्तानान्तु प्रथमप्रयेोगेषु ॥ ११ ॥
गृह्यसूत्रम् ।
Acharya Shri Kailassagarsuri Gyanmandir
नित्यमहरहर्यीनि कर्माणि प्रयुज्यन्ते तानि नित्यप्रयुक्तानि, – “मृषिस - त्यनकाममारं नित्यं प्रयुञ्जीत " - इत्येवमादीनि । तेषां प्रथमप्रयोगेषु प्रथमारम्भेषु त्रिरात्राभोजनादिकं न तु प्रतिप्रयोगमित्यर्थः । श्रशक्यत्वादित्यभिप्रायः । तदनेन, अनित्य प्रयुक्तानां प्रतिप्रयोगं करणं दर्शयति । तुशब्दोऽनर्थकोनिपातो मुखसुखार्थे वा ॥ ० ॥ ११ ॥ ० ॥ उपोष्य तु यजनीयप्रयेागेषु ॥ १२ ॥
-
cම්
यजनीयेति पक्षादियज्ञमाहुः । तेषां यजनीयानां यः प्रयोगोऽनुठानं तेषु उपोष्य प्रयोगः कर्त्तव्यः, न तत्र त्रिराज भोजनादिकभित्यर्थः । तुशब्दः पूर्व्ववत् बेोद्धव्यः ।
,
श्राह । अथ, इदमवाच्यं ननु तत्रापवासविधानादेव स प्राप्यते, श्रयेोच्यते, कारणं वक्तव्यम् । उच्यते । नित्ये तावत् पचादिचरी उपवामः सूचितः, न म काम्येषु प्राप्नोति, अत: काभ्येऽपि तस्य प्राप्य - र्थमेतत् सूत्रितम् । श्रथवा । उपवासवत् त्रिरात्राभोजनादिकमपि स्यात्, अतस्तन्निवृत्त्यर्थमेतदुच्यते । कथं नाम ? । उपोय्यैव न पुनस्त्रिरात्राभोजनादिकमपि कृत्वा इति । एवञ्च तुशब्दः त्रिरात्राभोजनादिव्यवच्छेदकेोऽपि भवति ॥ ० ॥ १२ ॥ ० ॥
उपरिष्टाद्देक्ष सान्निपातिकम् ॥ १३ ॥
यत् किल सन्निपतितमेव ज्ञायते, तत् सान्निपातिकमनियतनिमित्तं
For Private and Personal Use Only