________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
गोभिलीयं
[४ प्र. ५ का.]
प्राणायामो यथोक्तलक्षणः, इति। तदसङ्गतम् । कस्मात् ? । प्राणायाममायम्य, इति सूत्रणात्। अन्यथा, प्राणानायम्य, इति कुर्यात्। एतेन, प्राणधारणमात्रं वदता रघुनन्दनेनैतदनुपपत्तिभिया, प्राणानायम्य, दूति यत् परिकल्प्य लिखितं, तदप्यनादरणीयम्। प्राणयाममायम्य, इत्येतस्यैव पाठस्य सर्वत्रोपलम्भात् । पूर्वाख्याटभिस्तथैव वर्णणाच । शिष्टाश्च प्राणायाममेव यथोक्तलक्षणमाचरन्ति, न प्राणधारणमात्रम् । म खल्वयं प्रपदो वैरूपाक्षश्च क्षिप्रहामेषु न भवति । कुतः?।
“न कुर्यात् क्षिप्रहामेषु द्विजः परिसमूहनम् ।
वैरूपातञ्च न जपेत् प्रपदञ्च विवर्जयेत्” । दूति वचनात् ॥०॥ ८॥०॥
काम्येषु चिरावाभोजनम् ॥ ६ ॥ काम्येषु कर्मसु कर्त्तव्येषु त्रिरात्रमभोजनं प्रथमतः करणीयम् । श्राह । काम्येषु, इति किमर्थं क्रियते? ननु काम्येष्वत ऊर्द्धम्, इत्यधिकृतान्येव काम्यानि। नैष दोषः। पूर्वेषु चैके, इत्युभयेषामधिकारात् पूर्वव्वेतत् कदाचिदपि माभुदित्येवमर्थत्वात् काम्यग्रहणस्य ॥०॥६॥०॥
चीणि वा भक्तानि ॥ १० ॥ त्रिरात्रमत्रापि सम्बध्यते। त्रीणि वा भकानि भोजनानि कर्त्तव्यानि। त्रीण्येवेति नियमार्थतया पर्यवसानात् भनान्तराणं निवृत्तिरवगम्यते। एतदक्तं भवति। त्रिरात्रमेकभनं नक्तं वा कुर्यात्, इति। अभकानि, दूति पाठेपि त्रीण्येव अभकानि, इति भनत्रयमात्रमेव
For Private and Personal Use Only