________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
[४ प्र. ५ का. ]
|
होमकान्येव काम्यान्यभिप्रेत्य सूचयाञ्चकार, - इति श्लिष्यते । श्रतएव चशब्दः सहोमकानां समुच्चयार्थः । श्रथवा । पूर्वेषु चैके, - इत्युभयेषामधिकारात् पूर्वेष्वप्ययं विधिः स्यात् । अतस्तन्निरासार्थं काम्यग्रहणम् । चशब्द मेवकारार्थं वर्णयतस्तत्त्वकारस्याप्येषैव वर्णना अनुमतेति गम्यते । एवञ्च पूर्खाणि पूर्वेय्वपि पक्षतः प्राप्तानि – इति बोद्धव्यम् ॥ ० ॥ ७ ॥ ० ॥
अथेदानों प्रपदवैरूपाक्षयोर्जपप्रकारोऽभिधीयते -
गृह्यसूत्रम् ।
तपश्च तेजश्चेति जपित्वा प्राणायाममायम्यार्थमना वैरूपाक्षमारभ्योच्छुसेत् ॥ ८ ॥
तपश्च तेजश्च - इत्यादिमन्त्रं ( प्रपदरूपं ) जपित्वा तत्परिसमाप्तौ, प्राणानामायमनं प्राणायामः, – “त्रिरभ्यस्तः पूरककुम्भकरेचकाख्यः प्राणायामः, ” -- इति सन्ध्यासूत्रोक्तलक्षणः, तमायम्य कृत्वा, - इत्यर्थः । प्रथमं प्राणानायम्य पश्चात्तपश्च तेजश्च – इत्यादिमन्त्रजपः, -ईत्यसङ्गतैषाकल्पना । 'अर्थमना: ' श्रर्थः प्रयोजनम्, तस्मिन् मनो यस्य, सोऽयमर्थमनाः, -- यः कश्चिदर्थः साधयितुमभिप्रेतः, तं ध्यायन्, - इत्येतत् । ‘वैरूपाक्षमारभ्य' 'उच्छूसेत्' प्राणान् विमुञ्चेत् — इत्यर्थः । आवृत्य – इति कश्चित् पठति, वैरूपाक्षं जघा वायुं रेचयेत् इति व्याचष्टे च । प्राणायामोऽप्यत्र काम्येय्वेव स्यात् न पूर्व्वेषु । कथं ज्ञायते ? । श्रर्थमनाः, -इति करणात् । प्रपदजपानन्तरविधानाच्च । पूर्वेषु तु यथाम्नातमेव करणीयं न कश्चिद्विशेषः ।
,
कश्चिदाह । प्राणानां संयमनमेवात्र कर्त्तव्यमुपदिश्यते, न तु
For Private and Personal Use Only