________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
६८४
गोभिलीयं
[४ प्र. ५ का.
खल्वयं वैरूपाक्ष: हामानां पुरस्तादग्रतो जप्तव्यः । हामानामिति कुर्वन् सहोमकेष्वेव काम्येष्वेतस्य कर्त्तव्यतां दर्शयति । पूर्वाणि तहहोमकेष्वपि कर्त्तव्यानि ? । न, इत्युच्यते । कस्मात् ? । अग्निसम्बन्धन विधानात् । न्यञ्चकरणं परिममूहनञ्च खल्वग्निसंबन्धेन विधीयते । न खल्वहोमकेऽग्निरस्ति । अथापि स्यात्, एतस्मादेव कारणात्तत्राप्यनिमुत्पादयिष्यामहे, इति । अत्रोच्यते । नाप्रयोजकत्वात् । नैषा साध्वी कल्पना । कस्मात् ?। अप्रयोजकत्वात्। सिद्धं खल्वग्निमनूद्य तत्संबन्धेन जपादिकमेव वाक्यानि विदधति, न पुनरग्निमुत्पादयितुमपि प्रयोजयन्ति । कथं ज्ञायते ? । वाक्यस्य तत्रासामर्थ्यात् । उभयपरत्वे वाक्यभेदापत्तेश्च । कथम् । अग्निमंबन्धेनेतानि कर्त्तव्यानि, अग्निश्चोत्पादनीयः, इति यदि दावण्या विधित् सितौ, भिद्येत तर्हि वाक्यम् । अन्यदस्य रूपं विधीयमानस्य अन्यचानूद्यमानस्य भवति । तस्मात्,-महोमकेम्वेव एवमन्तानां करणम् , -इति सिद्धम् । तत्त्वकारस्तु, हामानां वक्ष्यमाणप्रागुननित्यनैमित्तिकानाम्, इति वर्णयाञ्चकार ॥०॥ ६ ॥०॥
काम्येषु च प्रपदः ॥ ७॥
प्रपदः, तपश्च तेजश्च, इत्यादिकोमन्त्रः, काम्येषु पुरस्तात् जप्तव्यः । चशब्दात् हामेष्वपि । एतदुक्तं भवति । द्विविधानि तावत् काम्यानि भवन्ति-होमसंयुतान्यहोमकानि च । तत्र, वैरूपाक्षोहामसंयुकेम्वेव, प्रपदस्तु सर्वत्रैव स्यात्, इति । तदिदं काम्यपदं होमादन्येषामपि काम्यानां ग्रहणार्थम् । काम्येष्वत अर्द्धम्-इति खल्वाचार्य: म
For Private and Personal Use Only